________________
उपदेश
सप्ततिः
॥१०॥
पादुकायुगमुन्मुच्य बहिरन्तविवेश सः । प्रधानरत्नैर्देव्यर्चामाचरच्छतुरोचिताम् ।।३७।। स्वामिनि त्वत्प्रसादेन निर्विघ्नं चौर्यमस्तु मे। इत्युदीर्य बहिर्यावद्ययौ तावन्नृपोऽवदत् ।।३८।। रुद्धद्वारः कथं याता रे जीवस्तस्कराधम । तोजतोऽपीत्यसो वेगानिर्जगाम बहि वि ॥३९।। नृपाभिमुखमुत्ताल: पादुकाद्वयमात्मनः । निक्षिप्तवान् क्षणादेष विज्ञाय समयोचितम् ।।४।। तव्यथाले नपे जाते जीवन सोऽहं प्रयाम्यहो । निःससारेति जल्पन् स चण्डिकालयमध्यतः ।।४।। स्वस्थीभूतेऽथ भूनाथे याति यात्येष पातकी । तूर्ण बन्धन्तु धावन्तमहो धावत धावत ॥४२।। पूरकुर्वन्त इति क्ष्माभृद्भटाः शस्त्रबलोद्भटाः । अधावन् केटकेऽमुष्य मार्जारस्येव कुर्कुराः ।।४३।। पादुके परिधायाथ क्षितिभुगगगनाध्वना । निगृहीतुमनाश्चौरमन्वगच्छद्विहङ्गवत् ।।४४।। लल्धोऽप्यहो गत: स्तेनस्तदेषा महती प्रपा । साम्प्रतं निगृहीष्यामीत्यन्तविहित निर्णयः ॥४५॥ इतस्ततश्चरश्चौरः पदानां गोपनाकृते । पक्षीव लनपक्षः सन् मनसीति व्यचिन्तयत् ॥४६।। यदासीत्पादुकाद्वन्द्वमा तद्गमितं मया । मुधा कुदन्धनेत्रेण क्व नश्याम्यधुना हहा ॥४७॥ राजा व्योमाध्वनाऽऽयाति तद्भटाश्च रणोद्भटाः । पापद्रुः फलितो मेऽद्य यः सिक्तश्चौरिकाम्बुना 11४८।। उपस्थितं मे मरणं शरणं नास्ति सम्प्रति । मनाग्नाराधितो धर्मः पिता व्यापादितस्तथा ।।४९।। इतश्च भ्रमता तेन ग्रामारामे मुनीश्वरः । दृष्टः शुश्राव तद्वाक्यं श्रवणामृत सोदरम् ।।५।।
।।१०।