________________
।।९।।
बहुशः शोधयित्वाऽसावाचस्यो क्षितिपं प्रति । स्वामिन्न स धराचारी वियद्गामीव लक्ष्यते ॥२३॥ असाध्यस्यैव दुधिः प्रतीकारोऽस्य दुष्करः । ततः परोपकारोत्कहृदयः सदया नृपः ।।२४।। स्वयं प्रैक्षिष्ट तं दुष्टमल्पात्मीयपरिच्छदः । ग्रामारामसुरागारवापीकूपास्पदादिषु ।।२५॥ परं नवाप पादस्य सस्य बातमपि प्रभुः। अभव्य इव मोक्षाप्तिमनल्पायासवानपि ॥२६।। ततो राजा जगामाशु पुरोद्यानं सुदूरगम् । बन्धुरं गन्धमाघ्राय चम्पकादिसुमोद्भवम् ।।२७।। गच्छन् ददर्श वेश्मासौ चण्डिकायाः पुरःस्थितम् । तन्मूर्तिमय॑मानां च कुसमैश्चन्दनैर्घनः ॥२८।। अथार्चकमुपायातं पप्रच्छ स्वच्छधीनृपः । विस्मयापन्नहत्तस्य वस्त्रं वीक्ष्य विशेषतः ।।२९।। कोऽयं पूजाविशेषोऽद्य देवार्चक निवेदय । केनापितानि वासांसि महांसीव सुधाद्य तेः ।।३०।। ततोऽवादीदयं स्वामिन्नहमायामि नित्यशः । अचित देवतामेतामभिप्रेतार्थदायिनीम् ॥३१॥ प्रतिप्रातः पुरः सुर्याः स्वर्णरत्नान्यहं लभे । तत्र कालिकों पूजां कुर्वे प्रत्यहमादरात ॥३२॥ राज्ञाऽज्ञायि ततोऽवश्यमचार्थ कोऽपि तस्करः । समेत्य रत्नस्वर्णाद्य देव्यग्रे ननु मुञ्चति ।।३३।। नान्यथा संभवत्येवं विज्ञायेति महीशिता । स्वावासमासदत्तूर्ण दिनकृत्यान्यसाधयत् ॥३४।। रजन्यामागमञ्चण्डीगृहं दण्डी भटान्वितः । दूरं दूरतरं शूरान् संस्थाप्य स्वयमुद्यतः ।।३५।। चंत्यान्तस्तस्थिवान् स्तम्भान्तरे स्वां गोपर्यंस्तनुम् । अत्रान्तरे समायातः पारिपन्थिककेसरी ॥३६॥