________________
उपदेश
सप्त
॥८
साद स्नाला प अगाभा य पाने कलसंचयम् । वृक्षारूढश्चिन्तितवान् दस्युरात्मनि निर्भरम् ॥९॥ कथं यास्यति हा मेऽद्य दिनं चौर्यविनाकृतम् । किञ्चित्कस्यापि चेद्वस्तु मिलेत्तचोरिका क्रिये ||१०|| इतश्च कोऽपि विद्यावानुत्तताराम्बरानरः । पादुकाद्वयमुन्मुच्य प्रविवेशाम्भसोऽम्तरे ॥१॥ स्नानं निर्माय चास्वाद्य विशदाम्भोऽभवत्सुखी । चित्ते च निश्चिकायेति योग्यसो भूलगत्पदः ॥१२॥ प्रविष्टः सरसो मध्ये दृष्टः स्पष्टमसो मया । ममायं समय: स्तन्यकर्म कर्तुमथ द्रुतम् ।।१३।। अस्याकाशगतेहेतुनिश्चितं पादुकाद्वयी । नान्यनिदानमस्यास्तीति निश्चित्य स्वचेतसि ।।१४।। अपहृत्य क्षणादेतामुड्डीनो गगनाध्वना । पक्षिवद्यातवान् वेगानिश्चलाः स्युन तस्कराः ॥१५!। पादुकारूढ एवातिवाह्य क्वापि दिनं समम् । निश्यागानिजकं धाम जनक चेत्यतर्जयत् ।।१६।। रे दुरात्मस्त्वया राज्ञो मत्स्वरूपं न्यवेदि किम् । त्वामहं मारयिष्यामीत्युक्त्वा निष्कृपधीरधीः ॥१७॥ जधान पितरं शीर्षे विपन्नमवमुच्य तम् । अहार्षीदिभ्यवेश्मभ्यो नानाधनसमुच्चयम् ।।१८।। यामत्रयं निशीथिन्याः स्थित्वाऽसौ नगरान्तरे । तुरीयमहरे याति पुनस्तत्र सरोवरे ।।१९।। दिवाऽरण्यान्तरास्थाय रात्रौ यात्वा पुनः पुरम् । मुषित्वाऽभ्येति तत्रैव विगोप्य नगराङ्गना: ॥२०॥ कियानपि ययौ कालः कुर्यतोऽस्यैवमन्वहम् । बिभ्युनिशागमाल्लोकाः शोकार्ता अन्तकादिव रक्षा राशा तद्वृत्तमाकर्ण्य पुरारक्षः प्रजल्पितः । रे तूर्णमानय स्तेनमेनमादेशमाचर ।।२२।।
11८