________________
॥३२३॥
मद्गृहं तर्हि दानमस्मै ददाम्यहम् । एवं विमृशतस्तस्यैवाययौ धाम ढणः || ४१|| तावदेष प्रहृष्टात्मा सिंहकेसरमोदकैः । मोदकैर्मनसस्तूर्णं प्रतिलंभितवान् भृशम् ॥४२॥ ततः श्रीनेमिमासाद्य सद्य एव व्यजिज्ञपत् । तदन्तरायदुष्कर्म कि मम क्षयमासदत् ||४३|| स्वाम्यादिदेश नाद्यापि तवैषा लब्धिरद्भुता । त्वमद्य वासुदेवेनाध्वनि वन्दित भादरात् ॥४४॥ तद्वीक्ष्यादत्त ते दानं बहुमानपुरःसरम् । वणिग्गुणिजनश्रेष्ठ इति ज्ञात्वा स तत्त्ववित् ॥ ४५ ॥ परलब्धिरियं भोक्तुं मम नौचित्यमञ्चति । विमृशन् ढंढणः प्रौढवैरङ्गिकशिरोमणिः || ४६ || मोदकानां परिष्ठापनिकार्थमगमत् पुरि । निर्जीवस्थण्डिलस्थाने तानचूरमदसा ||४७|| स्वकीयकरयुग्मेन हृदीति परिचिन्तयन् । अहो दुष्कर्मणां दत्ताशमण चेष्टितं कटु ।।४८।। एवं भावयतः संसारासारस्थितिभावनाम् । उल्लास स्फुरद्बोधदीपकः केवलाह्वयः ॥ ४९|| देवजयजयारावश्चक्रे वक्रेतराशयः । देवदुन्दुभयः क्षिप्रं ताडयामासिरेऽम्बरे ॥ ५०॥ बहुकालं विहृत्योवीं मुर्वी भूदिव निश्च ल. । प्रबोध्य भव्य सत्त्वालीमालीनः सिद्धिसद्मनि ॥ ५१ ॥ यथा भगवता तेन सोढः प्रौढपराक्रमात् । तथा लाभान्तरायोऽयं सोढव्योऽन्यैर्मुनीश्वरः ॥५२॥
।। इति ढंढणकुमारकथानकम् ॥
अथ भोगान्तराये कथा
इहेव भरहे धनपुरनामग्गामे नाणाविप सुमहिसी गोउलाभिरामे सुदत्तनामा कुटुंबिओ परिवसइ । तस्स घरे बहुकमकरो एगो कम्मकरो आसि । सो भोयणवेलाए जायाए जया भोयणत्थमुवविसर जारिसे तारिसे भोगणे परिवेसिए
।। ३२३ ।।