________________
उपदेश
| ।। ३२२ ॥
रधीः ||२३|| विजह विभुना सार्धं ग्रामाकरपुरादिषु । अगाधा विविधाबाबाः सहमानः स सर्वदा || २४|| अन्यदा द्वारकार्यामियाय प्रभुणा सह । निरीहः सिंहसुल्यास्स्थामा कामाभिमानहा ||२५|| उदियायान्यदा तस्वान्तरायोद्दामकर्म तत् । येनावाप्नोति नो क्वापि भैक्ष्यं भ्राम्यन् पुरान्तरे ||२६|| येनैष साधुना याति समया समयार्थभाक् । तलब्धिमपि निघ्नन्नो लभते स्वयमप्यहो ||२७|| गोविन्दतनुजन्माऽपि श्रीनेमेरपि शैक्ष्यकः । स्वयं गुणनिधिः पुर्या श्रीमत्यामपि निर्भरम् ||२८|| मध्याह्नसमये भ्राम्यन्नपि प्रतिगृहं सदा । न भिक्षालेशमप्याप हेतुरत्रान्तरायिकम् ।।२९॥ अमुष्याख्यायि वार्त्तषा समग्रा भिक्षुभिः प्रभोः । सोऽप्याह तदनु प्राक्तत्कृतदुष्कर्मचेष्टितम् ||३०|| ततेो ज्ञातस्ववृत्तान्तेन तेनाग्राहि साधुना । उदशेऽभिरहः प्रत्यक्षीभूय भगवत्पुरः ||३१|| नातः परं परोपात्तमैक्ष्यविण्डोपजीविना ! अवश्यं मयका भाव्यं विभाव्य प्राक्तनाशुभम् ||३२|| इत्थं लाभातरायोत्थपृथुकर्मानुभावजम् । कष्टं विषहतः कालः कियानध्यस्य जग्मिवान् ||३३|| अन्यदा वासुदेवेनाप्रच्छि स्वच्छेन चेतसा । स्वामिन्नाख्याहि कः साधुर्दु करोरु क्रियापरः ||३४|| प्रभुः प्रोवाच सर्वेऽपि यमिनः संयमोद्यताः । ढणषिः परं सर्वेभ्यो विशेषाधिकः स्मृतः ।। ३५ ।। यः स्वोपलब्धभिक्षान्नान्नान्यदश्नाति कर्हिचित् । इतश्चोत्थाय कृष्णोऽपि यावदागानिजां पुरीम् ||३६|| तावन्नेत्रातिथीभूतः प्रभूतसुकृतोद्यतः । चरन् गोचरचर्यार्थं ढंढणः श्रमणोत्तमः ||३७|| नीचेदृष्टि सिद्धिसौधबद्ध मुष्टिमदुष्टकम् । तं ववन्दे महाभक्यावतीनेकपाद्धरिः ||३८|| तमद्राक्षीद्वन्द्यमानम मान बहुमानतः । श्रेडी कविततश्चित्ते चिन्तयामासिवानि दम् ||३९|| निर्ग्रन्थोऽयं कुतार्थो यत्पदपद्ममधुव्रतम् । स्वं शिरः कुरुते कृष्णः क्षितिपश्रेणिसंकुलः ॥४०॥ यद्येति
सप्ततिका.
।। ३२२ ।।