________________
सप्ततिका
उपदेश- र स सत्वरम् । तदवस्थानि दृष्टानि निधानानि निजीकसि ।।७२।। यदासोद्गतमन्यत्र देशेषु स्वं तदप्ययत् । प्रोचे जनेन
कि पुण्यप्रागल्भ्यस्य हि दुर्घटम् ।।३।। यदभूद्भक्षितं लोकस्तदप्याप्तमयत्नतः । कोटयः षट्षष्टिसङ्ख्याका मिलितास्तस्य वेश्मनि ।।७४॥ संचितं सुकृतं येन निश्चलत्वेन चेतसः । संपद्यन्ते सपोव तस्यामुत्रैव संपदः ॥७५।। तेनोत्तुङ्गं
जिनागारं सारं प्रतिमयार्हताम् । सद्भक्त्या कारयामासे न्यायाजितधनोच्चयैः ।।७६।। दीननि थपङ्गवन्धबधिरेषु ॥३२०॥
दियाधीः । स दानमददायका अरुणा इनोचित । भेष जनश्लाघामस्नाघाघाद्विरक्तधीः । अगयर्शनाण्याद कृत्यजन्म पवित्रयन् ।।७८।। पर्यन्तेऽनशनं लात्वा ध्यात्वा पञ्चनमस्कृतिम् । चतु पल्यस्थितिज्ञेऽरुणाभे प्रथमे दिवि
७९।। सुरस्ततो विदेहे स समुत्पद्योत्तमे कुले । गृहोनदीक्षो मोक्षश्रीभोक्ता भावी भवोझ नात् ।।८।। इत्थं विदित्वा धनसारवृत्तं वित्तं निवेश्योत्तमदानधर्मे । दानान्तराय: प्रतिषेध्य एव तद्वद्यथा स्युः सकला: समृद्धयः ।।८१।।
॥ इति दानान्तरायोपरि धनसारकथा ।। अथ लाभान्तरायोपरि कथा
भ्राजते भारतेऽत्रव मागधाहयनीवृति । धान्यपूर इति ग्रामोऽभिरामोऽन्वर्थनामभाक् ।।१॥ राजाधिकारी धिक्कारी प्रजानामुग्रदण्डतः । तत्र पारासर इति द्विजन्माऽजनि विश्रुतः ।।२।। सोऽन्यदाऽऽज्ञावशाद्राजवारी: पारीणक: श्रुतेः ।
ग्राम्येभ्यो वापयामास तुरङ्गचरणोचिता: ।।३।। क्षुधातृड्बाधितास्तेऽपि कर्षकाः पारवश्यतः । प्रातःकालाद्भवेद्यावन्म1xध्यंदिनमनारतम् ।।४।। क्षेत्राणि खेटयन्त्युचःस्वरेण स्वधुरीणकान् । हकयन्तस्ततः कष्टादनिटाच्छटिकाक्षिणः ।।५।।
।।२०।।