________________
द्रस्वमश्नुते ॥५३।। गृहीता यत्त्वया संपत् पैशून्याद्राजदण्डनात् । ततस्तदर्थः सर्वोऽपि नष्टः पातङ्गरङ्गवत् ।।५४।। ततः स्वकर्मणः श्रुत्वा फलं संविग्नमानसः । वन्दित्वा ज्ञानिनं प्रोचे ह्यद्यप्रभृति हे प्रभो ॥५५॥ यदयिष्ये द्रविणं तचतुर्थाशमात्मनः । गेहेऽहं रक्षयिष्यामि सर्वमन्यच्छुभाजने ।।१६।। बिनाऽनाभोगदोपण नान्यदोषभरस्तथा । यावजीवं मयाऽऽभाष्यः स्वमुखेन सुखैषिणा ।।५७।। सम्यक्त्वेन समं तेन विरतिशतस्ततः । प्रपन्ना गुणसम्पन्ना केवलज्ञानिसाक्षिकम् ।।५८।। पाश्चात्य भवमन्तुर्यः स सर्बः क्षामितो यतेः । लगित्वा पदयोर्द्वन्द्व निर्द्वन्द्वानन्दवत्तिना ।।९।। भगवान् विजहारोामथ श्रेष्ठी ततश्चलन् । स्वनिवासपुरं प्राप पापनिर्मुक्तमानसः ॥६०॥ वाणिज्यं सृजता तेन यद्धनं घनजितम् । तच्चतुर्भागमादाय शेषं धमें व्ययीकृतम् ।।६१॥ जिना भिरतस्यास्य सर्वपौषधधारिणः । शून्यागारादिषु थाद्धतिमासारिणतरः ६५ रिमनपिपले काले शून्यधाम्न्यस्य तरपः । चकोप व्यातरस्तत्र स्थायी मायी भृशं निशि ।।६३।। कराल: कालबेतालभूतप्रेतर्भयङ्करैः । भापयित्वास्तिकोत्तसं दर्दश विषमाहिना ॥६४॥ अतुदद्दे. हमत्यर्थं कालकूटोमिसङ्गमैः । तथापि धर्मान्नाचालीत्स्व शैल इव निश्चल: ।।६५।। ततस्तुष्टः सुर: प्रातस्तं तुष्टाव स्वभक्तितः । त्वं धन्यः कृतपुण्योऽसि सनैपुण्योऽसि निर्भरम् ।।६६।। बरं वर्ष प्रसन्नोऽस्मि स्मित्वेत्युक्ते दिवौकसा । सोऽ- 2 स्थान्मौनव्रतालम्बी ततो भूय: सुरोऽवदत् ।।६७।। यद्यपि त्वं निरीहोऽसि तथापि शृणु मदिगरा । ब्रज त्वं मथुरापुर्यामनार्याचारवारक ॥६८॥ यावन्मात्रं तवासीत्स्वं तावन्मानं तथैव हि । भावि प्रभूतपण्यौपः पुनस्तत्र भवद्गृहे ॥६९।। क्षमयित्वेत्युदित्वाऽगादमरः स्थानमात्मनः । प्रतिमां पारयित्वाऽथ श्रेष्ठी चित्ते व्यचिन्तयत् ।।७०।। अर्थेनानर्थमुलेन कि तेनाध्यथवाऽस्तु तत् । येनाहं निजकार्पण्यदोषमुन्मूलयाम्यहो ७१।। एतद्वि मुश्य मथुरापुर्यायातः