________________
उपदेश
३१८।।
शुध्वस्त संशयस्तमाः । शशीव सौम्यमूत्तिर्यश्चित्रं जाड्योज्झितः परम् ।। ३६|| हेमाम्भोजनिषण्णं तं प्रेक्ष्यागत्य ननाम च । पप तृषितवच्छ ठी धर्मगीर्मधुरामृतम् ||३७|| दुर्लभं नृभवं भव्या लब्ध्वा बुद्ध्वा जिनागमम् । सम्यग्धमं समाराध्य भजध्वं सिद्धिजं सुखम् ||३८|| ततः समयमासाद्य सद्योऽवयोज्झितान्तरः । पप्रच्छ प्राञ्जलिः श्रेष्ठी भगवन्नमीशः ||३९|| दृढमुष्टिः कथं जज्ञे तज्ज्ञेच्छाभाग भृशं जने । कष्टं कष्टार्जितं वित्तं कथं मे सव्यथस्थितेः ||४०|| जजल्पोज्ज्वलदन्त सुधाधवलिताधरः । साधुस्तं धातकीखण्डभारते सोदद्वयम् ॥४१॥ आसीन्महेभ्यसदने सदनेकसुखाविते । पितर्युपरते ज्येष्ठः स्वामी गेहस्य जातवान् ||४२॥ प्रकृत्योदारचित्तोऽभूदृद्धः स्तब्धोऽपरः पुनः । दानं ददति दीनेभ्यस्तस्मिन्नथ सहोदरे ||४३|| चुकोप लघुरत्यन्तमन्तरन्यस्तदीक्षणात् । वारयत्यपि नो दानाद्विरराम गुरुः परम् ॥४४॥ भिन्नीभूय ततस्तस्थौ लघुलघुतरोऽप्यणोः । ववृधे त्यागिनोऽप्यस्य गेहे श्रीः सुकृतोदयात् ॥४५॥ अदातुरपि तस्या - गालक्ष्मी रुष्टेव मानिनी । अगण्यापुण्ययोगेन गेहाद्देहात् पुनः सुखम् ||४६|| व्रतमादाय वृद्धोऽथ जगाम त्रिदिवं शिवम् | चारित्रं दिनमप्येकमाचीर्ण न हि निष्फलम् ||४७|| लघुर्भ्राता पुनस्तस्य निन्द्यमानोऽखिलैर्जनः । पर्यन्ते तापसीं दीक्षामादाय च विपद्य सः ।।४८ || असुरेषु समुत्पेदे ततस्त्वमजनिष्ट भोः । सौधर्मतः पुनश्च्युत्वा ज्येष्ठो ज्येष्टो गुणोत्करः ||४९|| तामलिप्त्यामभूदिभ्यसुतस्तदनु सद्गुरोः । पार्श्वे व्रतं समादाय पालयन्नतुलौजसा ||५० ॥ ततोऽहं hat जज्ञे समप्रगुणशेवधिः । स समाजग्मिवानत्र साम्प्रतं विहरन् भुवि ॥५१॥ दानप्रद्वेषकरणादन्तरायाच्च सर्वथा । कार्पण्यदोषस्ते जज्ञे विशेतर जनेप्सितः ||५२॥ ददानं वारयेद्यस्तु स्वयं न हि ददाति च । दत्तं च शोचते वित्तं स दरि
सप्ततिका.
।।३१८।।