________________
३१७॥
वित्तं देहे तथोद्यमः ॥१९॥ अवगाध सरिनाथमनाथजनताश्रयम् । अर्जयामि धनं तावत्तर्जयामि दुरापदम ॥२०॥ इह स्थितस्य न श्रेयः कृपणाख्याभृतो हि मे । लोकहास्यं भृशं भावि पूर्वमप्यतिदोषिणः ॥२१॥एत निश्चित्य चित्तेऽसौ दशलक्षार्पणात् क्षणात् । संगृह्य पण्यसंभारमपारं सलिलाध्वना ।।२२।। पोतनापूर्य तयोरुनादः सममथाचलत् । वृथा मनोरथान् कुर्वन्नुरून् दुटिदुषितः ।।१३।। या विमाटः निकटागता वियति तरक्षणमेव विधर्वशात् । दुरितराजिरिवात्मन उज्ज्वलाऽध्वनि गतस्य हि तस्य दुरात्मनः ॥२४॥ तदनु च प्रससार दुराशुगस्तडिदतीवचकार खरस्वरम् । द्वयमपीह जगर्ज महेययेव जलधिर्जलदश्च धराम्बरे ॥२५॥ अकलयच्चटुलत्वमनारतं प्रवहणः किल पिप्पलपत्रवत् । अहह कि भवितेति चकम्पिरे हृदि त दाम्भसि पोत वणिरजनाः ॥२६॥ है रक्ष रक्ष देवेति जल्पति प्रचरे जने । शतखण्डमभूधानमभाग्यात्तस्य दुमतेः ।।२७।। भाण्डोत्करः समग्रोऽपि ममज्जाम्भसि सत्वरः । अभव्य इव दुष्कर्मभारभारितमानसः ॥२८। लब्ध्वा फलकखण्डं तत्ततार तरसाम्भसः । श्रेष्टी श्रेष्ठगुणर्जन्तुरिव वाद्धिभवान्तरात् ।।२९।। शून्यारण्यमथैत्याशु चिन्तयामासिवानदः। क्लेशर्यजितं वित्तं हहा तदपि मे गतम् ॥३०॥ पात्रक्षेत्रेषु तन्नोप्तं नो भुक्तं तन्मयाऽऽत्मना । परार्थे नोपयुक्त यत्तन्मे दु:खायते भृशम् ॥३१॥ भोगस्त्यागस्तथा भ्रशस्तिस्रोऽ| मूतयः स्मृताः । मद्धनस्य पुनशि एवं जज्ञे विधर्वशात् ॥३२।। एताक्ताऽपि नो देवतुष्टिः स्फुटमजायत । कुटम्बविरहो जज्ञे यत्पुनः सोऽतिदुःसहः ॥३३॥ एतचिन्तात्तचित्तेन तेन ताम्तेन निर्भरम् । सहकारतरुच्छायासीनोऽदशि मुनीश्वरः ॥३४॥ कृपासुधारसस्येव निझरः सुविसृत्वरः । दुःखदाघज्वरोत्तप्तजन्तुसन्तापवारकः ।।३५।। केवलोद्बोधशुद्धां
।।३१७॥