________________
०१।।
अभ्युत्थितो रा जितशत्रुनाम कस्तत्रावदत्तं विहितप्रणामकः ||३७|| ऋषे त्वदीयागमने निदानं किमत्र सोऽथाह वचः प्रधानम् । लावण्य संपूरितकन्यकानां त्वमाकरोऽसि क्षितिपोल्बणानाम् ||३८|| एकां कनीं देहि मम प्रवीणां राज्ञापि शापात्प्रबलाषीणाम् । प्रोक्तं भयार्त्तेन शतं कनीनां ममास्ति तत्पश्य कलावतीनाम् ||३९|| स्वामीहते या तव सास्तु नारी निशम्य सोऽपीति किलाविचारी । प्रत्येकतः प्रार्थयति स्म गत्वा ललाटपट्टेऽञ्जलिमाशु धृत्वा ||४०|| नारी नृणां मोहनवरिश कृता विधात्रेक्षुलतेव मिष्टा । वयःस्थवद्यां प्रवयास्तपस्वी कामातुरः कामयते मनस्वी ॥ ४१ ॥ | ताभिस्तु तं वीक्ष्य तदा पिशाचाकारं जराजीर्णतनुं स्ववाचा प्रोक्तं स्फुरदूपरमान्विताभिविधाय निष्ठ्य तविधि समाभिः || ४२ || विरूपरूपेण जुगुप्सनीयः सर्वस्य दृष्टाऽध्यविलोकनीयः । स्त्रीलोलुपस्त्वं शिरद्धिस्थितेभ्यः किं लज्जसे तो पलितेभ्य एभ्यः |||४३|| रुषाऽमुनादाय तदैव शापः पुष्णेव शुक्रप्रभवेन तापः । कन्यासमूहः समकारि कुन्जः ख्यातः स देशोऽस्त्यपि कन्यकुब्जः ||४४|| अथ विलक्षास्यवता कनिष्ठा निर्गच्छता राजसुता च दृष्टा । इतस्ततो वाल्यवशाद्भ्रमन्ती द्वारेऽमुना रेणुभरे रमन्ती ॥४५॥ प्रोक्तं तदैतेन च मातुलिङ्ग तस्यै प्रदायकमतीय चङ्गम् । किमिच्छसीदं सहसा स्वहस्तः पसारितस्तत्र तथा प्रशस्तः ।।४६ ॥ दत्त्वा फलं तो स निनाय जायां कट्यां समुत्पाट्य मुनिनिजायाम् । पित्रा स्वपुत्र्यः प्रहिता बुधत्वात्तस्मिन् बहिर्गच्छति शिक्षयित्वा ||४७|| कुब्जा भणन्ति स्म तदग्रतस्ता यत्सालिकास्तेऽथ वयं समस्ताः । मुक्त्वेशीर्नस्तव नैव युक्तं गन्तुं मुने सोऽप्यशृणोत्तदुक्तम् ||४८ || निर्माय ताः सज्जतनूरवामः सोऽपि स्वकीयाश्रममाजगा ताश्रमे यौवननाप बाला सा रेणुकाख्या शशिदी प्रभाला ||४९। विवाह्य तस्यै समये सवित्तं गोना (ग) स
.१॥
तिका.