________________
1.३००
सपदेश
रक्षुब्धमिवाद्विराज तं पश्यतस्तो स्थिरधर्मभाजम् ॥२४।। ततः पुनस्तो बहुकष्टधाम्न: समीपमाप्ती जमदग्निनाम्नः । सप्ततिका. आतापनाकष्टकृतादरस्य स्फुरत्तनूत्सर्गधुरन्धरस्य ॥२५॥ गुपर्द मायावतः शानिय नव्यं कपटाभ्यु-१ पायम् । पक्षिद्वयोरूपमकायुभाभ्यां तत्कूर्चकेशेषु समेत्य ताभ्याम ॥२६॥ कदाचिदुत्ता स्ववधूः खगेन मनुष्यवाण्या प्रमदाश्रितेन 1 व्रजाम्यवश्यायगिरि प्रियेऽहं कार्यान्समेष्यामि पुन: स्वगेहम् ॥२७॥ तदा तयाऽभाणि ततस्त्वमन्यस्त्रीसक्त एष्यस्यथवा न वन्य । कः प्रत्ययो मद्धृदि तावकोनस्तामाह तावद्विहगोऽप्यधीनः ।।२८।। भ्रूणर्षिगोत्रीद्विजपवहत्यापापविलुप्ये यदि तूर्णगत्या । आयामि नार्धप्रहरान्तराले त्वदीयपाचे प्रमदेन बाले ॥२९॥ योषाऽथ तं प्रोक्तवती प्रभो भृशं प्रत्येमि कुर्याः शपथं यदीडशम् । ऋषेर्यदेतस्य गरीयसाहसा लुप्येऽहमज्ञानधरस्य रंहसा ।।३०।। उक्तं शकुन्तेन तदेत्यहं मिये क्रिये न होकशपथं पुनः प्रिये । श्रुत्वाऽमुनेति प्रतिधेन भूयसा पाण्योधुतं पक्षियुगं बलीयसा
॥३१॥ पृष्टं च पापं किमिहाजितं मया प्रवज्यया रे चिरकालमेतया । यत्पञ्चपापेभ्य इदं विशिष्यते निवेद्यमेतन्न पुनTo यथेष्यते ।।३२।। उक्तं खगाभ्यामथ रुष्यसि त्वं मा भो महर्षे यदपास्य सत्त्वम् । पुत्रोज्झितः प्रबजित: कुमारस्ततः IN कथं नासि सपापभारः ॥३३॥ उक्तं स्मृतौ यन्न सुतोज्झितस्य स्वर्गो गतिश्च प्रभवेन्नरस्य । गार्हस्थ्यधर्म परिपाल्य पूर्व
॥३०॥ पश्चाजनः स्वर्गमुपंत्यपूर्वम् ।।३४।। लोकोक्तिरप्यस्ति "तिबुड्डु जाया न जेहि पुसा गिहवासि जाया । न रोपिया हस्थिहि जेहि अंबा न सीचिया पोपल जेहि लंबा" ॥३५।। श्रुत्वेति सत्त्वाद्धदर्य चचाल क्षणान्महर्षेमरुतेवं सालः । ताभ्यां रतावप्रथि धर्मपूरः प्रोत्कण्ठिते हृद्यलपन्मयूरः ॥३६॥ स्त्रीयाचनो क्तमनास्ततः परं स तापसोऽगान्मृगकोटकं पुरम् ।