________________
२९९॥
तीयं त्वयका स्वधा प्रारम्यते कि लसता समृद्धया ||११|| श्राद्धोऽवदद्यो भुवि भोगलालसः शिश्रियः साधनकारि बालिशः । व्यर्थ नयेद्योवनमत्र काकिनीं क्रीणाति कोट्या स कुकीतिदायिनीम् ||१२|| यथा न भूमौ पतितः करेणुः सख युधे स्यादित्र जीर्णवेणुः । तथा जराजर्जरगात्रयष्टिर्न दीक्षया कर्मदलं पिनष्टि ||१३|| ऊने सुरस्तेऽङ्गलताऽतिमारा दीक्षा पुनः कर्कशबज्रधारा । नद्यज्यने ने न चरित्रभारः स्यात्कृष्टकृन्मुद्गरज : प्रहारः || १४ || श्राद्धोऽवदद्वा शकुनेः पतनं मृदोः शरीरस्य फलं चरित्रम् । शीर्षे न माला मृदुमल्लिकायाः कि वध्यते भोगिमतल्लिकायाः ||१९|| मृद्वया नवायाश्च वपुलंताया नान्यत्तपस्तः फलमुच्छ्रितायाः । आस्वादतोऽन्यन्न फलं वरस्य प्रपक्वमाकन्दफलोत्करस्य ।। १६ ।। न प्राप्यते मोक्षमुत्रं प्रचण्डं शरीरसाख्येन जनैरखण्डम् । क्षोदं विनोर्व्या अपि रत्नखानेनं रोहणाद्री फलमस्ति जाने ||१७|| प्राहामरो भद्र लसद्विवेक पूर्व समृत्पादय पुत्रमेकम् । पिण्डप्रदानेन विना सुतस्य गतिर्भवित्री न तवोत्तमस्य ||१८|| श्राद्धप्रयवोचद्यदि नाम जातः स्यात्स्वर्गसंसर्ग इहाङ्गजातः । स्वर्गस्ता हस्तगतः शुनीता स्याच्छुकरीणां चटकावलीनाम् ।।१९।। निवेद्यते यद्यथ सद्वितण्डेर्गतिः पिरऋणां सुतदत्तपिण्डः । किं तर्हि नान्यत्र कृताम्बुसेकंरन्यवृद्धिः क्रियतेऽविवेकः ||२०|| पिण्डोऽग्निमध्ये किल हूयते यः स एव भस्मत्वमुपत्यमेयः । प्राप्नोति तृप्ति द्विज एवं पिण्डे द्विजन्मनो वा पतितं पिचण्डे ||२१|| पिण्डेन पुत्रप्रहितेन तृप्ताः कथं भवेयुः पितरोऽतिगुमाः । सम्बन्धतस्ते च कुतः कुगत्याश्रिता भवेयुः सहिताः सुगत्या ।। २२ ।। ये स्युः पुनः संसृतिशर्मगूढाविलोमभोगा हि विषेनिरुद्धाः । शिक्षा स्त्रियं तेषु निम्पणीया न चेत्स्वपार्श्वे परिरक्षणीया ||२३|| इत्यं स मायामरवाक्ययुक्त्या श्रेष्ठी न भिन्नः शिखरीव शक्त्या । वान्याभि
॥९९९॥