SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ ८॥ ॥ इति विषयोपरि सत्यकिकथानकम् ।। सप्ततिका अथ कषायोपरिसुभूमकिप्रबंध: । सुभूमचक्रिकथा ।। श्रीवाचनाचार्यवसन्तसोमध्वजप्रसादोऽस्तु ममानुलोमः । यतः सुभुमाष्टमचक्रिवृत्तं करोम्यनुप्रासाविराजिवृत्तम् ।।१।। आस्ते वसन्ताद्यपुरं पृथिव्यां समादधानं श्रियमत्र दिव्याम् । एकोऽस्ति तत्राग्निकनामबाल: कान्तारवर्तीव करी कराल: ॥२।। सार्थेन साधं व्रजति स्म डिम्भः स दूरदेशाय कदाऽप्यदम्भः । भ्रष्टस्ततः कर्मबशेन मूढः श्रोतोऽम्भस वृक्ष इवा / प्ररूढः ॥३।। जयाभिधानस्य स तापसस्य प्रापाश्रमं तीव्रतपोरसस्य । संबंधितस्तेन तनूजवत्स स्वीयाश्रमे गोष्यतिनेव वत्सः ।।४।। ततोऽस्य जज्ञे जमदग्निनाम प्रतप्यते स्मोग्रतपांसि नाम । जातः प्रसिद्ध : सकलेऽपि विश्वे निधे समुल्लाम इवात्र नि:स्वे ।।५।। इतश्च वैश्वानरनामधारी सम्यक्त्वशाली मुनिभक्तिकारी । धन्वन्तरिस्तापसभक्तिलीनः सुरश्च मिथ्यात्वपथाध्वनीनः ॥६॥ आत्मीयकात्मीयकशासनस्य द्वौ पक्षपातेन शुभाशुभस्य । मिथः समालोचयतः प्रधानां कुर्वः परीक्षां मुनितापसानाम् 11७11 वैश्वानरः प्राह सुसाधुनिष्ठः सर्वेषु योऽस्माकमहो निकृष्टः । सर्वप्रधानोऽथ च युष्मदीयः ।।२९८1 स्याद्यः स एवात्र परीक्षणीयः ।।८।। अथास्तिकः परयो बिनीतश्चम्पां प्रबुद्धो मिथिलापुरीतः । गुर्वन्तिके प्रव्रजनाय धन्यामेत्युत्तमां द्वादशदेवजन्याम् ।।९।। स सिद्धपुत्रद्वयरूपवद्भ्यां पृष्ट्वेत्यमूभ्यां भणितः समुद्भ्याम् । तारुण्यमाभाति तवातितारं तद्भव नानाविधभोगभारम् ।।१०।। ये जर्जराङ्गा जरसा पुमांसस्त एव दीक्षाध्वनि तस्थिवांसः । अनौचि
SR No.090524
Book TitleUpdeshsapttika Navya
Original Sutra AuthorKshemrajmuni
AuthorJinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages486
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy