________________
उपदेश
॥३०२॥
केन दत्तम् । हर्षादृनुस्नानत्रतीयमुक्ता भर्त्रा कदापीत्यनुरागयुक्ता ||५० || ब्रूहि प्रिये ब्रह्मचरुं त्वदर्थं प्रसारयाम्येकमहं समर्थम् । समस्तभूदेवशिरोमणीकः स्वात्ते ययँकस्तनांणीकः ॥ ५१ ॥ एवं कुरुध्येति तयोक्तमस्य स्वसा परं मेऽस्ति गृहे यदस्य । अनन्तवीर्यस्य नरेश्वरस्य श्रीहस्तिनागाख्यपुरस्थितस्य ।।५२|| क्षत्राङ्गजोत्पत्तिकृतेऽत्र तस्याः क्षात्रं चरु साधय चापरस्याः । चरुद्वयं तेन कृतं तदुक्त्या विचितितं रेणुकयेति युक्त्या ॥ ५३॥ जाताऽपि राज्ञः सदने मुताऽहं मृगीव वन्यामलभं विवाहम् । मा स्यात्सुतो मद्वदरण्यसक्त इत्येतया क्षत्रचरुः स भुक्तः ||५४ || स प्रेषितो विप्रचरुर्भगिन्यास्तया नसीगन्ध इवाम्बुजित्या । रामोऽङ्गजन्माऽजनि तापसीतः स कार्तवीर्या महीजनीनः || ५५ ॥ कान्तारचारी शिखरीव जामदग्न्योऽवरीवृध्यत एष रामः । तत्राययौ कोऽपि दने नभोगः सज्जीकृतो रेणुकया सरोगः ॥५६॥ कुठारविद्याऽय तदङ्गजस्य प्रादायि रामस्य तु तेन तस्य । रामेण विद्या शरकक्षगेण प्रसाधिता सिद्धिमिता क्षणेन ||१७|| कर्तुं स्वसुः स्वं मिलनं कदापि प्राप्ता पुरं सा ननु रेणुकाऽपि । अनन्तवीर्येण समं नृपेण त्रपोज्झिता तत्र रता क्रमेण ॥५८॥ वाताहताश्वत्थदलोपमा वा निरीक्ष्यते स्त्री चपलस्वभावा । ईदृश्यनाचारविधौ यदा स्याद्राजोद्यतस्तहि परे न हास्याः ।।५९।। शच्यां तु सत्यामपि रूपवल्ल्यां पुरन्दरः सेवितवानहल्याम् । सति प्रदीप्ते हृदये स्मराग्नाविष्टाशुभे वेत्ति न रागभाग् ना ।। ६० ।। एवं विराय प्रतिचर्यं चौर्यं तयोर्द्वयोः संदधतोः स्वशौर्यम् । जज्ञे सुतः साऽपि च जातलजा न स्वाश्रमं याति कुकर्मसज्जा || ६१|| तथाथ गत्वा जमदग्निरेतां समानयामास सुतोपवेताम् । रामेण सा विश्रुतदुश्चरित्रा स्वपना तत्र हता सपुत्रा ।। ६२ ।। श्रुतं भगिन्याऽपि हता कृतक्रुधा रामेण माता किल रेणुकाभिधा । अनन्तवीर्यस्य
सत.
१३०२।।