________________
उपदेश
२९२ ॥
अथ व्रतानां षट्कं साधुयोग्यमुपदिश्यते किं तत् ? प्रथमं तावत्प्राणिघातविरतिव्रतं त्रिधा मनशा वचसा कायेन पालनीयं । द्वितीयं मृषावाक्यविरतिव्रतं त्रिधा मनसा वचसा कायेन तदपि पालनीयं । तृतीयमदत्तग्रहणविरतिव्रतं तदपि त्रिधा धायें । चतुर्थमब्रह्मविरतिव्रतं तदपि त्रिधा पालनोयं । पञ्चमं मूर्छापरिग्रहत्यागरूपं । षष्ठं रात्रिभुक्तविरतिरूपं । यदुक्त श्रीपाक्षिकवृत्तौ "सव्वाओ पाणाइवायाओ वेरमणं, सव्वाओ मुसावायाओ वेरमणं, सव्वाओ अनादाणाओं वेरमणं, सव्वाओ मेहुणाओ वेरमणं, सव्वाओ परिग्गहाओ वेरमणं, सव्वाओ राइभोयणाओ वेरमणं" । तद्यथेत्युपदर्शनार्थः । सर्वस्मान्निरवशेषात्त्रसस्थावर सूक्ष्मबादरभेदभिन्नात्कृतकारितानुमतिभेदाच्चेत्यर्थः । अथवा द्रव्यत षड्जीवनिकायविषयात् क्षेत्रतस्त्रिलोकसंभवात् कालतोऽतीतादे रात्र्यादिप्रभवाद्वा, भावतो रागद्वेषसमुत्थात् प्राणानामिन्द्रियोच्छ्वासायुरादीनामतिपातः प्राणिनः सकाशाद्विभ्रंशः प्राणातिपातः प्राणिप्राणवियोजनमित्यर्थः, तस्माद्विरमणं सम्य ज्ञानश्रद्धापूर्वक निवर्त्तनमिति । तथा सर्वस्मात्सद्भावप्रतिषेधा १ ऽसद्भावोद्भावना २ ऽर्थान्तरोक्ति ३ गर्हा ४ भेदात् कृतादिभेदाच्च । अथवा द्रव्यतः सर्वधर्मास्तिकायादिद्रव्यविषयात् क्षेत्रतः सर्वलोकालोकगोचरात्, कालतोऽतीतादे रात्र्यादिवत्तनो वा भावतः कषायनोकषायादिप्रभवात् मृषालीकं वदनं वादो मृषावादस्तस्माद्विरमणं विरतिरिति । तथा सर्वस्मात्कृतादिभेदात् अथवा द्रव्यतः सचेतनाचेतनद्रव्यविषयात् क्षेत्रतो ग्रामनगरारण्यादिसंभवात् कालतोऽतीतादे रात्र्यादिप्रभवाद्वा, भावतो रागद्वेषमोहसमुत्थात्, अदत्तं स्वामिनाऽवितीर्णं तस्यादानं ग्रहणमदत्तादानं तस्माद्विरमणमिति । तथा सर्वस्मात्कृतकारितानुमतिभेदात् अथवा द्रव्यतो दिव्यमानुषतैरश्वभेदात् रूपरूपसहगत भेदाद्वा
सप्ततिका.
।।२९२ ।।