________________
उपदेश
॥२७६।।
राजचिह्नानि तत्क्षणात् ।।५३॥ श्रामण्यममृतप्रायमपास्य विषसोदरम् । स राज्यमाददे मन्दबुद्धिः सिद्धिपराङ्मुखः ।।५४।। क: काचमणिमादत्ते प्रोज्झित्वा रत्नमुत्तमम् ? । चक्रवत्तिपदत्यागाद्रङ्कत्वं कः समीहते ? ।।५।। परं सुविषमः कर्मविपाकः खलु देहिनाम् । शोऽपि भीरुरत्रार्थे दक्षो मूर्खायतेऽपि च ॥५६।। निःशेषः साधुवेषोऽस्मादग्राहि धरणीभुजा । रक्षादिव महारत्नमयत्नेन सुमेधसा ।।५७॥ नागरान्तःपुरादीनामनिष्टोऽप्येष विष्टरम् । आरुरोह स्वयं कण्डरीकः कस्तमु. पाचरेत् ।।५८। विवर्णरूपलावण्यमगण्यगुणवजितम् । उपाहसन्निमं मन्त्रिसामन्ताद्या नपानुगाः ।।५९।। हर्यशासनमासीनः शृगालः किमयं स्वयम् । द्राक्षा भक्ष्याहतामेति रासभस्य कदाऽपि किम् ।।६०।। जनोक्तिमिति शृण्वानश्नकोप हृदि निर्भरम् । प्रविशामि गृहं तावत् पश्चाच्छिक्षा करिष्यते ॥६।। क्षुत्परोषहखिन्नात्मा ततो भोज्यमकारयत् । सूपकारैर्महानिग्धमधुरास्वादमञ्जुलम् ॥६२।। यदृच्छया तबुभुजे प्रमाणातीतमेष च । सर्वान्नीन इवाहीनरसनारसलालसः ।।६३॥ अङ्गनाङ्गालिङ्गनादिभोगाभोगप्रसङ्गतः । उदन्याशुष्यदास्यस्य समुत्पेदे विसूचिका ।।६४।। निद्रानागमनाज्जज्ञेऽरतिः शूलं च दुःसहम् । उदरं बुद्धिमापन्न रुद्धः पबनसञ्चरः ।। ६५।। ईदृगवस्थादुःस्थेऽस्मिन्न कोऽप्यायाति सन्निधी। कः पश्यत्यास्यमस्यापि दृष्टस्येत्यपवादकृत् ।।६६। वयस्यैरपि नोपास्यो निन्द्यमानो जनघनैः । अरातिजातिबद्याति यद्यषा रात्रिरजसा ॥६७।। तदा पापानिमान् सर्वान् प्रातः प्रेतपतेर्गुहम् । प्रापयामि सुनिःशङ्कमित्यसो हृद्यचिन्तयत् ।।६८।। कृष्णलेश्यावशोद्भूतरौद्रध्यानकतानधीः । पापात्मा मृतिमासाद्य सप्तमोामवातरत् ॥६९।। प्रत्तटे ह्यप्रतिठाने प्रयस्त्रिशन्मिताम्बुधीन् । आयुः प्रपालयामास महा वेदनयादितः ॥७॥ दुर्मत्या संयमारत्या दुर्गत्याश्लेषतोड़
||२७६।।