________________
२७७ ।।
मुना । सहस्रवर्षपर्याय माचर्याप्याददेऽसुखम् ॥ ७१ ॥ अथ श्रीपुण्डरीकाख्यः प्रपन्नयतिवेषभाक् । धन्योऽहं येन सम्प्राप्तः साधुधर्मः सुरद्रुवत् ॥ ७२ ॥ व्रतोचारं विधास्येऽहं सद्गुरोः साक्षिकं कदा ? । पुनः पुनरिति ध्यायन् प्रतस्थे गुरुसन्मुखम् ।।७३|| ग्रामेषु विहरन् मार्गे रूक्षशीताशनैर्धनैः । आत्मानं यापयामास चरणाचरणोद्यतः ||७४|| कुशैरङकुशतीक्ष्णास्यैः कण्टकैः कर्करैः खरैः । व्यथितक्रमयुग्मोद्यद्भुधिरारुणितावनिः ॥७५॥ क्षुत्तृष्णोष्णादितोऽप्येष नेर्यासमितिमत्यगात् । प्रशस्तलेश्योपगश्वचाल न च सत्त्वतः ॥ ७६ ॥ विशश्राम श्रमेणार्त्तः कस्मिन्नपि पुरे पथि अभ्यपाश्रयं तस्थौ स्वस्थस्संस्तारकोपरि ॥७७॥ कदाऽहं सद्गुरोः पार्श्वे यथोक्तविधिना व्रतम् । आराधयिष्येऽनघघी ? साधयिष्ये परं पदम् ? ॥७८॥ इति ध्यायन् सुधीरात्मा समताममतान्वितः । बध्वाञ्जलि निजे शीर्षेऽपाठोच्छक्रस्नवं मुदा ।। ७९ ।। नमोऽस्त्वर्हद्रथ ईशेभ्यो भगवद्भयस्तथा नमः । नमो मद्धदातृभ्य आचार्येभ्योऽप्यहर्निशम् ||८०|| अधुनापि तदध्यक्षं सर्वं प्राणातिपातनम् । सर्वं मृषावचः सर्वमदत्तं मैथुनं तथा ।। ८१ ।। सर्व परिग्रहं सर्वं मिथ्यादर्शनशल्यकम् । प्रत्याख्यामि यदिष्टं च शरीरं व्युत्सृजामि तत् ||८२ ॥ इत्यालोच्य प्रतिक्रान्तः श्रान्तः पापाध्वनस्तराम् । सर्वार्थसिद्ध शुद्धात्मा देवश्रियमुपार्जयत् ॥ ८३ ॥ त्रयस्त्रिंशत्सागराणि तत्रायुः पर्यपालयत् । ततश्च्युत्वा विदेहेषूत्पद्य सिद्धि प्रयास्यति ॥ ८४॥ | संयमाध्वपरिश्रान्तेनारतियंतिभ्रमंगा । व्यधायि कण्डरीकेण तथा धार्या न धीमता ॥ ८५ ॥ अकृतार्हवतोबारो धर्मे रतिर्म्यधाद्यथा । पुण्डरीकस्तथाऽन्योऽपि कुरुतात् सुखसाधनम् ॥ ८६ ॥ एवं श्रुत्वा कण्डरीकस्य वृत्तं भव्या नव्याचारचास्त्वभाज़ | चारित्राध्वन्युत्तमे भोरमध्वं येन श्रेयःसुन्दरीं सुवृणुध्वम् ||८७ || संयमे नारतिः
।।२७७॥