________________
॥२७५।।
नमिवोद्दामकामसंजीवनोद्यतम् ||३६|| मोहवासनया नूनमनया कुनयाध्वनि । प्रेर्यन्ते प्राणिनः सर्वे विज्ञा अज्ञानिका अपि ।। ३७।। धर्मश्रद्धाभ्रपटली प्रलीना क्षणमात्रतः । विषयाशामहावात्यावशतस्तन्मनोऽम्बरात् ||३८ सर्वः सदुपदेशोऽस्य जगाल हिमपिण्डवत् । स्मरव्या महातापप्रसरोरुदिवाकरात् ॥ ३९ ॥ गता त्रपा नृपातङ्कादिव तस्कर सन्ततिः । ननाश हरिणीवाशु मर्यादोन्मादसिंहतः ||४० ।। सर्वः कुलाभिमानोऽस्य मोनवन्निर्जलाश्रयात् । प्रयातवान् परासुत्वमहो दुष्कर्मचेष्टितम् ||४१|| ततो निःसंगतोन्मुक्तमनसाऽनेन चिन्तितम् । पयाप्तं व्रतकष्टेनानिष्टेनारिष्टकारिणा ॥ ४२ ॥ श्रमिष्येऽहं निजं राज्यं साम्राज्यं यत्र चाद्भुतम् । शब्दादिविषयग्रामानभिरामानरं रमे ||४३|| चारकक्षिप्तत्रच्चिते दधानः संयमारतिम् । यतः परीषहोदग्रसुभटैर्महसोत्कटैः ||४४|| साधुवर्गमनापृच्छ्य प्रच्छन्नः स्तेनवद्गणान् । निर्गत्य गजवत्त्यक्तश्शृङ्खल छलितोऽहसा ॥४५॥ द्रव्यलिङ्ग बन्नङ्गे समागात् पुण्डरीकिणीम् तस्थौ तद्बहिरुद्याने ग्लानेच्छ: संयमोपरि ||४६ || तरुणैररुण पर्णैः कोमलैः किसलैस्तरोः । विरच्य स्रस्तरं स्वैरं लुलोठ निजलीलया ||४७|| विमुच्य वृक्षशाखायां निजं धर्मध्वजादि सः । आजुहाव नराधीशं निःशङ्कः पापकर्मणि ।।४८ ।। उद्यानपालकाज्ज्ञात्वा तदागममचिन्तितम् । चिन्तयामास चित्ते राट् कथमेकाकितात ।। ४९ ।। ध्रुवं भग्नपरीणामश्चरणादनुजो हि मे । ततः स्वल्पपरीवारस्तं दिक्षुर्व्रजाम्यहम् ॥५०॥ इति निर्णीय भूभर्ता प्रययावनुयायिभिः । वन्दित्वा तं जगादेवं भ्रातर्भग्नोऽसि संयमात् ।।५१|| पूर्वमेव मयाऽऽख्यायि भवतो भवतोयधि: 1 दुस्तरोऽयं भवादृक्षैस्तत्तथैवाजनिष्ट भोः ॥५२॥ राज्येन न हि मे कार्यं स्वीकुरु त्वं निजेप्सितम् । इत्युदित्वा ददावस्मै
।।२७५॥