________________
१।२७३ ।।
|| कण्डरोककथा ||
जम्बूद्वीपे विदेहेऽत्र विजयः पुष्कलावती | नगर्या पुण्डरीकिण्यामासीदासीकृताहितः ||१|| द्विधाऽपि हि महापद्मस्तत्रास्ते भूरिवल्लभः | कृष्णस्येव गृहे पद्मा पद्मावत्यस्ति तत्प्रिया ||३|| कण्डरीकपुण्डरोकाभूतां तत्सुतावुभो । सोम्यत्वेनाथ महमा सूर्याचन्द्रमसाविव ||३|| बहुश्रुताः स्तुताचारा विचारागमपारगाः । अन्यथा समवासास्तत्रोद्याने सुनीवराः ||४|| विदिषया क्ष्माभुज्जगाम सपरिच्छद । धर्मं सम्यक् समाकर्ण्य कर्णाभ्यामभयावहम् ||५|| बृहत्तनयमास्थाप्य राज्ये प्राज्यरमाश्रये । अग्राहि भूभुजा दीक्षानीयलुत्वमुपेयुषा || ६ || अधीत्य सर्वपूर्वणि षष्टाष्टन सपोभरैः । कर्मप्राग्भारमुच्छेद्य निरवद्यव्रतोद्यतः ॥ ७॥ प्रभूतकालमालम्ब्य संयम संयमी क्षमी । शिवधर्म गनाशर्म लेभे केवलमाय सः ||८|| युग्मम् ॥ त एवं स्थविरास्तत्राजग्मुरन्येद्य ुरुद्यताः । जग्मतुस्तन्नमस्यार्थ द्वावपि भ्रातराविमो || तथ्य धर्मकथां श्रोत्रपयीकृत्य कृतादरः । पुण्डरोकः प्रपेदेसी हढव्रतमनोरथम् ||१०|| नत्वा गुरुं पुरीं गत्वा समा हूय सदाह्वयः । कण्डरीकमुवाचैवं सचिवानपि भूमिपः ||११|| वत्स पालयात्मीयं राज्यमर्जय सद्यशः । अवियुक्ता मिया भुक्त भोगा रोगागमोज्झिताः ।।१२।। अधारि श्रावको धर्मः कर्मधर्माम्बुदागमः । गतं तारुण्यमेव द्राक् यथा शैलनदीजलम् ।।१३।। जज्ञे मरणमासनं खिनं तेन मनो भृशम् । राज्यश्रियं प्रपद्यस्व प्रव्रज्यामहमाद्रिये ॥१४॥ कण्डरीकस्ततः प्रोचे कि प्रपातयसि प्रभो । पातकाम्भोनिधेरन्तर्मामन्धमिव सत्वरम् | १५ || अहमध्यस्मि संसारोहिप्रचेता अनारतम् । दीक्षा कक्षोकरिष्यामि मान्तरायं विधेहि मे ||१६|| द्विस्त्रिरुक्तं क्षितीशेन तथाऽप्येष महाग्रही । ततः पुनर्वभाणैनं युक्तमुक्तं त्वयाऽनुज || १७|| न त्राणं चरणादन्यत् पोतवद्भवारियों । पततः सत्त्वजातस्य निस्त्रा
।।२७३ ।।