________________
सप्ततिकाः
॥२७०।।
परामुपरता भविका भवसंतते: ।।७९।।
॥ इति सुबुद्धिदुर्बुद्धिकथानकं सम्पूर्णम् ॥ अथ हास्यादिषट्कपरिहारबतषट्कपालनपञ्चप्रमादनिर्दलनपञ्चान्तरायनिवारणोपदेशमभिधित्सुराह--
हासाइ8कं परिवज्जियवं. छक्कं वयाणं तह सब्जियवं ।
पंचप्पमाया न ह सेदियब्बा पंचतरायावि निवारियव्वा ।।४।। व्याख्या-सङ्ग्रहकाव्यमिदं । अत्रार्थे महान् बिस्तरोऽस्ति । परं कियानप्यर्थो दृष्टान्तमुखेनौद्भाव्यते-हास्यमादियेषां ते हास्यरत्यरतिशोकभयजगप्सादयस्तेषां बटक, एकबद्भावेनैकवचनं, यथा श्रीस्थानाङ्ग-"चउहि ठाणेहि हासु प्पत्ती सिया, सं जहा-पासित्ता भासित्ता सुणित्ता संभरित्ता" हास्यमोहनीयकर्मोदयेन हास्योत्पत्तिः स्यात् । तदपि
हास्य सनिमित्तं निनिमित्तं वा स्यात् 1 हास्यमपि बहु क्रियमाणं कर्मबन्धायैव स्यात् । रत्यरती अपि न कायें, अहं र सुखीत्यादिका रतिः साम्प्रतमहमसुखीत्या दिका चारतिः, ते द्वे अपि साधुना न कायें। शोचनं शोकश्वेतोऽभीष्टे वस्तुनि
नष्टे न शोक: कार्यः । भयं सप्तधा-इहपरलोकादानाकरमादाजीविकामरणाश्लोकभेदात् मन्तव्यं, तदपि न चेतसि घार्य (जुगुप्सा न कार्या) । षट्कं व्रतानां प्राणिघातानृतोक्त्यदत्तग्रहणाब्रह्मपरिग्रहरात्रिभक्तप्रतिषेधलक्षणं सज्जयितव्यं आत्मन्यारोपणीयं । पञ्च प्रमादाः मद्यविषयकषायतन्द्राविकथाख्याः सेवितव्या नैव । तथा पञ्चसङ्ख्याका दानलाभवीर्यभोगोपभोगरूपा अन्तराया निवारयितव्याः आत्मनः सकाशाद्दूरोकार्याः तत्प्रसरो नात्मन्याधेयः । इति काव्यसंक्षि
।।२७०