________________
11411
॥१॥" अहं तीर्थतां पदाम्भोजनत्वा हितोपदेशं कथयामि भो भव्या यूयं शृणुतेति संङ्कः । इत्थमिन्द्रवज्राच्छन्दोरूपप्रथम काव्यार्थः ।
सेवि
सव्वमयं विसालं, पालिज सोलं पुण सव्वकालं ।
न दिज्जए कस्स वि कूडआलं, छिदिज्ज एवं भवदुक्खजालं ||२||
व्याख्या - हितोपदेशक्रमश्चायम् सेवेत आश्रयेत सर्वज्ञमतं सर्वं भूतभवद्भाविवस्तुतत्त्वजातं जानन्ति द्रव्यपर्याया त्मकतयेति सर्वशास्तेषां मतं शासनं सर्वज्ञमतं । किंभूतं तत् ? विशालं विस्तीर्ण वि विशेषेण सर्वान्यशासनेभ्यः सर्वोत्कृष्टतया शालते शोभत इति वा विशालं । न हि सर्वविच्छासनसमुपासनप्रधानधन प्रवर्द्धनमन्तरेणा सङ्ख्यातदुः खजातप्रपात कपातकसंघातजनितात्यन्तदो गंत्य रौद्रदारिद्रोपद्रवप्रायः कदाचित्संपनीपद्यते । न हि रत्नाकरसेवनं क्वापिनिष्फलं । तथा पालयेच्छीलं सर्वकालं निरन्तरं, अर्हम्मतोपास्ते रेतदेवाविकलं फलं यत् साधुभिः श्राद्धर्वा श्रद्धोबन्धुरतया सर्वदा सुशीलवत्तया स्थीयते, न पुननिश्चलनिर्मलशीलशैथिल्यमाद्रियते, “अद्यात्मा मुत्कलाऽस्तु कल्ये पुननियम कष्टानुष्ठानादि पालयिष्यते" नेवं कदाचिश्चेतसि चिन्तनीयं चेतनावद्भिः । दृढधर्मिणामिदमेवाविकलं जीवितव्यफलं यत्स्वकीयशीलं निष्कलङ्कतया पात्यते रोहिण्यादिवत् तथा च "न दिज्जए" त्ति न दीयते कस्यापि कूडं आलं कूटकलङ्क इति संटङ्कः । एवं क्रियमाणे भवदुःखजालं छिन्द्यात्, जन्तुरित्यनुक्तोऽपि कर्ताध्याहर्त्तव्यः । भवनं भवः संसारस्तस्य दुःखमेव जालमित्र जालं यथा जालान्तः पतितः शफरः सुतरां दुःखी स्यात, तद्धि विच्छिद्य यदा बहिनियति तदैव सुखी नान्यथा,
1141