________________
उपदेश
॥४॥
भगवानेव न हि तत्परः कश्चिन्नरो विपश्विद्भावमाप्नुयात् । न हि सहस्रकरमन्तरेण मणिप्रदीपादिविश्वविश्वंभराभावभरावभासप्रागल्भ्यमभ्यस्यतीति युक्तमुक्त गर्वापहारव्याहारोच्चारणं कवेः । अथ यदेवं व्याकृतं भो भव्या यूयं हितशिक्षां कर्णे कुर्वन्तु" तदप्यसङ्गतं यतो जगत्प्रभुनिविशेषशेमुषीकतया भव्याभव्य जीवपर्षत्समक्षं दक्षं प्रावृतमयसमुन्न मत्सजलजलधरमधुरतरवाण्या योजनावधिविस्तारिण्या सद्धर्ममाख्याति, न च भव्याभव्ययोर्विषये किश्विद्विशेषमाधत्ते । सत्यं भगवानविशेषवानेव धर्मोपदेष्टा तथाप्येतदेवमन्तरमजनिष्ट-ये भव्या जीवास्त एवार्हत्समुपदिष्टा वन्यधर्मगरिविशिष्टनिःश्रेयस सौख्य साधनपटिष्ठ जीवरक्षणाद्यभ्रूण हितोपदेशसमाकर्णनाधिकारिणः । तदनु च यथातथश्रयः -पुरीपथानुसारिणः समयसमबायप्रतिपादितपवित्रचारित्रक्रियाकलापकारिणः । तथा ये चाभय्यास्ते सम्यक् श्रुतेऽपि श्रीम दार्हते सर्वसत्त्वहिते श्रुतेऽपि नैकान्तेन रुचिधर्त्तारः । तथा च न सम्यक् तपः संयमानुष्ठानानुष्ठातारः । ततस्तेऽहं मेऽनधिकृता एवं प्राकृता इव गौरवार्हनागरिकव्यवहारे । ततस्तेषामुपेक्षेव श्रेयस्करो । यदि सर्वसत्वोपकारस्रप्टरि भगवत्यपि समुपदेष्टरि न ह्यमीषामन्तःकरणे सदुपदेश लेशप्रवेशावकाशस्तदा तदीयप्राग्भवानन्त्यसंचितात्यन्तदुर्भेद्यावद्यानामेवान्तरायविस्फूजितं । न हि निर्दोषपोषस्य श्रीजिनेशस्य कश्चिद्दोषसंश्लेषः । यदुक्त स्वोपज्ञमेघद्वात्रिशिकायां- "विश्वत्रातरि दातरि त्वयि समायाते प्रयाते महा- भीष्म ग्रीष्म भरे प्रवर्षति पयःपूरं घनप्रीतिदम् । दुःखाच्छुष्यति यद्यवासकवनं पत्रत्रrafter यद्वृद्धिर्न पलाशशाखिनि महत्तत्कर्म दुश्चेष्टितम् ||१|| ” अतः सुष्ठुक्त भव्यानामेव धर्मश्रवणमन्त्रणं । उक्त च "संक्रामन्ति सुखेन हि निर्मलरत्ने यथेन्दुरविकिरणाः । भव्यहृदये तथैव हि विशन्ति धर्मोपदेशभरा:
सप्ततिका.
11811