________________
उपदेश
।। २४४ ।।
॥ १४ ॥ यथाण्यशेषैरसुरैः सुरेशः सर्वर्द्धभिः सर्वबलैर्नरेशैः । पूज्यन्त एते युगपजिनेशाः स्युः पूजिता नैव तथापि लेशात् ।। १५ ।। गुणैजिनाः स्युः पुनरप्रमेयाः, पूजा कृता स्याद्भविर्कस्तु मेया । शक्त्याऽहमेतस्य ततो यतिष्ये, मानस्य मोक्षाय शुभं करिष्ये ||१६|| अथ चतुःषष्टिसह्लदन्तावलान् हरिजन मताधिगन्ता । ऐरावणाख्य त्रिदशादभङ्गान्नमापयामास गिरीन्द्रतुङ्गान् ।।१७।। एकत्र चैकत्र गजेऽधिलीना, मूर्ध्नामभूत् पञ्चशती नवीना । युक्तोपरि द्वादशभिः समन्तात्, प्रत्येकमष्टाष्ट शिरस्सु दन्ताः ||१८|| जाताश्च वाप्योऽनुरदं तथाऽष्टी वाप्यां च वाप्यां कमलानि चाष्टौ । प्रत्येकमंभोरहि पत्रलक्षं, मध्यस्थ रंकणिकया सुलक्षम् ।।१९।। प्रासाद एकोऽजनि कणिकायां शचीयुगध्यास्त हरितकायाम् । पत्रेष्वयं नाट्यविधि नवेषु प्रत्येकमालोकयति स्म तेषु ॥२०॥ स्वाराज्यलक्ष्म्या च सुपर्वराजस्तत्रान्यपापश्चिमतीर्थराजः । कर्तुं नमस्यां समुपेयिवानक्लेदाद्दशार्णारूपमिराववानः ||२१|| प्रदक्षिणीकृत्य जिनं गरीन्द्रे, गजोपरिस्थे प्रणमत्यपीन्द्रे । गजाग्रिमांड़ी भुवि तत्र मग्नो यतोऽम्बुसिक्ताईभुवीव लग्नी ||२२|| तीर्थं गजानपदकं तत एव जातं, क्ष्मापोऽथ तं हरिमवेक्ष्य नवजातम् । चिन्तामिमां हृदि चकार हरेर्यदाहो, त्रणं रमाबलमनुत्तररूपमाहो ||२३|| ही कूपमण्डूक इवात्र गर्व, धृत्वाऽऽसदं लाघवमत्यखर्वम् । ततोऽनयाऽनर्थसमूहक, कृतं ममत मही ।।२४।। ध्यास्त्रेति सद्बुधिरिव प्रवालान्, स पञ्चभिर्मुष्टिभिरात्मवालान् । क्षणात्स समुत्खाय चरित्रभारं समाददेऽर्हन्निकटेऽनिवारम् ||२५|| अथो जितंमन्य इतप्रमोदः प्रोचे प्रणम्यामरनायकोऽदः । राजर्षिमेतं त्वमिहासि धन्यः संपरितात्मीयप्रतिज्ञः ||२६|| जगाम संस्तूय सहस्रनेत्रः पुनः पुनस्तं मरुदालयेऽत्र । क्रमेण कर्मक्षयतोऽपवर्ग, राजर्षिरण्याप
सप्ततिका
।। २४४ ।।