________________
।।२३७।।
सामन्तेन कर्मणामेषः । सिद्धिधियमुपयेमे रेमे साकं तयाऽजस्रम् ।।९५ ॥ भुवनतिलकस्यैवं मत्वा चरित्रमनाविलं, निजकहृदये भव्याः श्रव्याऽमृताक्षरपद्धतिः । श्रयंत विनये तोर्थेशादिष्वनारतमुत्तमां, येन मतिमनुपमा स्याद्व: समीहितसङ्गमः ।। ९६ ।।
॥ इति दशविधवनयोपदेशविषये श्रीभुवनतिलककुमारचरितम् ।।
पूर्वं कषायस्वरूपं सप्रपञ्चमुदाहृतं अथ चतुर्णां कषायाणां व्यक्तमेव काव्यचतुष्केणोपदेशमाह - मणे मणापि हु तिब्बरोसो, न पारियव्at कयपापासो । जओ भवे पुन्नजलस्स, सोसो, संपज्ञ्जए कस्सवि नेव तोसो ||३३|| व्याख्या - मनसि मनागपि स्तोकोऽपि हुरवधारणे तीव्रवासी शेष तीव्ररोषः न धारयितव्यः धार्यः । किंभूतः ? कुतः पापपोषो येन स तथा । पुनर्यतः कोपाद्भवेत् पुण्यमेव जल पुण्यजल' तस्य शोषः शुष्कता । अथ चोत्पद्यते कस्यापि नैव तेोषः । कोधः समुद्भूतः सन् पापस्यैव पुष्टिमाधत्ते, न धर्मस्य यत उक्तम्- क्रोधाद्भवति विरोधः सुदृढप्रेमापि याति दूरेण । क्रोधान्निश्चितधर्मः शर्म न चिते न चाङ्गेऽपि ॥ १॥ सामान्येनापि जनेत नात्र भाव्यं सुदीर्घरोषेण । पुनरिह तपस्विनां कि कथनं निश्छद्मधर्मभृताम् ॥२॥" तस्मात्कोपप्रलोप एव श्रेयानिति काव्यार्थः ।।३३।।
॥२३७॥