________________
||२३५11
॥६३।। ज्ञानी तमाह भोः शृणु कर्मास्य क्षीणतामगात्प्रायः । निवेदनोदयोऽयं भविताऽस्मिन् वर्तमानदिने ॥६॥ कर्णाभरणीकृत्य ज्ञानिवचः शुचि शुभेन सानन्दाः । सैनिक जनास्तमीक्षांचकुर्यथया व्यतिकान्तम् ॥६५।। सचिवाय
निरवयं वचोऽभृतैः शीतलैः स सिक्तः सन् । अभजचैतन्यकलामिलापतेर्नन्दनो भुवनः ॥६६॥ स्वप्राग्भवस्वरूपं सम्यक् र शि तेभ्योऽवबुध्य राजसुतः । सममेव हर्षशोकव्याकुलचेता अजायत सः ।।६७॥ सूरि ननाम भक्त्या बहुयुक्त्या विनयवृ
त्तिमाधाय । भूपोहहः प्रसन्नः प्रवक्तमेव समारेभे ॥६८॥ संजातजातिसंस्मतिरहमेतस्माद्भदौस्थपातकतः । कथमपि मध्ये भगवन् पाशान्तःपतितहरिण इव ॥६९।। आह श्रीमरिरथो कुपथोन्मायो बिना न जिनधर्मम् । तत्रापि संयमातिरात्यन्तिकमोक्षसौख्यकरी ॥७०।। द्रव्यस्तवमाराध्य प्रयालि सुधायकोऽध्युत कल्पम् । भावस्तवतः श्रमणः पुनरविघटिकात् सिद्धिम् ॥७१। मुगुरोर्याहारसुधाधारास्वादानिवृत्तरागगदः । प्रतिपेदे नृपसूनुश्वरणं शरणं शुभाचरणम् ॥७२॥ कण्ठीरवादिकतिचित्तदनुचरा अपि नृपाद्भयभ्रान्ताः। प्रतिपद्य रन् संयममसंयमात्प्रतिनिवृत्त हृदः ।।७।। युवती यशोमती सा दुःखप्रारभारमान्तरं दधती । पत्युनिशम्य सम्यग्वैराग्यमभङ्गमापन्नम् ।।७४।। तद्विरहात्तिमगाधामसहन्ती दु:महामथात्यर्थम् । मकरीव सलिलशोषं विललाप पुनः पुनस्तत्र ।।७५।। व्यलुठच्च भूमिपृष्ठे ऋष्टेऽनिष्टेऽम्बुधाविवापतिता । हा प्राणनाथ कस्मादूरादपि ननु विरक्तोऽसि ।।७६।। न मया तवापराद्धं किमपि कृपापात्रमात्र लतिकेयम् । शुष्यति लतेव सलिलासिक्ता वनवीथिकामध्ये ॥७७।। हे सख्यः शृणुत कथं विरहमहास्थलपथं दुरवगाहम् । लघु लवयानि पत्याशाकम्भोतः समुत्तीर्णा ।।७८१। प्राहुरथ तां बयस्या यस्याप्रतिमश्रिरूपसौन्दर्यम् । अन्यं धन्यं वृणु वर