________________
उपदेश-18 शशाम काममेधो बिनापि जज्बाल चित्रमिदम् ।।४८।। तस्य हिताऽपि हि शिक्षा न सुकृतपक्षावहा मनाग् जज्ञे ।
सप्ततिका. ज्वरितस्य हि घृतपानं किमु पुष्टिकरं शरीरस्य ? ॥४९॥ मत्तः करीब कोपाच्छिक्षादानेऽन्यदा मदाक्रान्तः प्रति गुरुमधाबतासौ न विचार: कोपि रुषितानाम ॥५०॥ सर्वेऽप्येते यतयश्छलमलमालोकयन्ति मम दुष्टाः । पापिष्ठाः खलु
रुटाः सृष्टाः कष्टाय मे स्रष्टा ॥५१॥ इत्थं प्रलपन् स यथा तथाऽन्यथाऽसत्पथा व्यतिक्रान्तः । गुरुघाताय ।।२३४॥
जलान्तश्चिक्षेप विषं प्रपानस्य ।।५२॥ प्रपलाय्य स्वयमगमत्सर्वत्र सुशङ्किता हि पाप्मानः । स्थातुमशक्ताः स्थाने विधाय विविधान्यकृत्यानि ॥५३।। पयसः पानाच्छासनसूर्याऽवायंन्त सर्वथाचार्याः । न हि विपदः सुकृत वतामापद्यन्ते कदाचिदपि ।।५४।। सोऽरण्ये ह्यशरण्ये भ्राम्यन्नधान्तमात्मभीत्याऽथ । शीतोष्णात्तष्णाधिव्याधिविबाधिताङ्गः सन् ॥५५॥ न्यपतद्दवानलान्तः पतङ्ग इव कजलध्वजशिखायाम् । मृत्वा सप्तमनरवावन्यामज्ञानधी: प्रययौ ।।५।। तत्राद भ्रां
भ्राविर्भूतां वेदना समनुभूय । उदपद्यत तिर्यक्षु प्रसभं मत्स्यादिषु स पापः ।।५७।। नरकेषु ततः शतश: कर्कशतादग्विधानि दुःखानि । भुक्त्वा भुक्त्वा भूयः सत्वाघाताद्यघसमूहैः ।।१८।। भ्रान्त्वा भवेषु भूरिषु सूरिषु निर्हेतुकेन 81 कोपेन | तादृव्रतलोपेन च विषह्य चासहकष्टानि ॥५९।। कृत्वा बालतपांसि प्रयाससाध्यान्यकामनिर्जरया । दुष्कर्म
॥२३४॥ लाघववशात्कथञ्चिदुद्यद्वषोत्कर्षः ॥६०॥ घनदक्षोणिभुजोऽभूत्तनयो विनयोज्ज्वलो भुवनतिलकः । पित्रोरतीव हृदयप्रमोदसंजीवनः सोऽयम् ॥६१।। ऋषिहत्याभिप्रायप्रभूतदुरकर्मणोऽवशेषवशात् । एतादगदुरवस्थाभाजनमजनिष्ट चाकस्मात् ॥६२॥ कण्ठीरवस्तदुक्तं वृत्त धृत्वाऽथ भीरुकः प्रोचे । केवलिनमसी स्वामिन् कथमपि भदिताऽपि नीरोगः