________________
उपदेश
॥२३०॥
जिणि सिद्धारिय चेइयाणं, संघरस धम्मस्स तहा गुरूणं । सुपस्सुवज्झायसुदंसणेसु, दसन्ह मेसि विषयं करे ||३२||
व्याख्या -- जिना: सामान्य केवलिनस्तेषामिन्द्रा जिनेन्द्राः, तथा कर्मक्षयं कृत्वा ये सिद्धिमुपयातास्ते सिद्धाः पश्वदशधा, आर्या आचार्याः पञ्चधाचारे साधव इति चेतः समाधिजनकानि चैत्यानि जिनप्रतिमाः, जिनेन्द्राश्च सिद्धाश्चाचार्याच चैत्यानि चेति द्वन्द्वस्तेषां । संघः साधुसाध्वीश्राद्ध श्राद्धिका रूपश्र्चतुर्भेदस्तस्य । दुर्गतिप्रसृतान् जीवान् धारयतीति धर्मस्तस्य । (तथा) गुणन्ति धर्मध्वानमिति गुरवो धर्मोपदेष्टारस्तेषां । श्रूयते श्रुतिभ्यामिति श्रुतं द्वादशाङ्गरूपं तस्य । उप समीपे समेत्याधीयते येषां ते उपाध्यायः द्वादशाङ्गीपाठकाः, तथा शोभनं दर्शनं सुदर्शनं सम्यक्त्वं औपशमिकक्षयोपशमादिरूपं, उपाध्यायाश्च सद्दर्शनानि चेति द्वन्द्वस्तेषु इति सम्बन्धः । एतेषु पूर्वोद्दिष्टेषु सर्वेष्वहो भव्य विनयं कुरुध्व, एतेषु कृतविनयः पुमान् सम्यक्त्वशुद्धिमाधत्ते यतो हेतोविनय एवं धर्ममूलमुपन्यस्तस्त्रीयशः । इहार्हम्मते दर्शत्रामी विनयार्हाः, नापरे । एतद्विनयभाजः स्वः सिद्धिपुर्येश्वर्यभोक्तारः संपत्स्यन्ते । अत्रापि स्वाम्यमात्य मातृपितृभक्तिपरा नरा यदि न विषीदन्ति तदाऽर्हृदादिविनयवतां सतां अत्र परत्राप्युत्तमपदव्येव निःसन्देहं भवित्रीति काव्यार्थः ||३२|| दशविनयोपरि श्रीभुवनतिलकज्ञातमातम्यते, तद्यथा-
।। भुवनतिलककथा |
यत्रानेके कुसुमालीढभ्रमरास्तत्कराः प्रबभुः । तदिहास्ते कुसुमपुरं कुसुममिवोद्यद्यशः सुरभि || १॥ दीनजननिवह
सप्ततिका
॥२३॥