________________
।।२२९ ।।
दो मदोषधीः || २४|| शिष्टानामेष आचारः प्रोच्यते नान्यदूषणम् । दुष्टास्त्वसन्तमाख्यान्ति परदोषमभीरुकाः ।।२५।। भूपति कुपितः प्रोचे हृन्तव्योऽयं हि मायिकः । शूलिकाग्रे समारोप्यो दुष्कर्मफलमनुते ||२६|| श्रावकः प्राप्तसंवेगस्ततचिन्तितवानिदम् । अहो संसारवैरस्य मोहकर्मायया मम ||२७|| कृतमन्येन दुष्कर्म भुङ्क्तेऽन्यः समुपस्थितम् । कस्योपरिष्टादष्यामि तुष्यामि च विसंशयम् ||२८|| नैवात्मीयमुखेनाथ परदोषानहं ब्रुवे । कुलाङ्गत्यफलं ह्येतत्समोदयमुपागतम् ।। २९।। तावद्भटैर्वेष्टयित्वा नीतोऽसौ वध्यभूमिकाम् । गुडवन्मक्षिकावृदैः पौरलोकैः परिवृतः ॥ ततोऽप चिन्यांच वक्रेऽस्मिन् समुपागते। कष्टादमुष्मान्मुक्तश्चेत्तदाऽहं स्यां महाव्रती ||३१|| एवं विचित्तरनेप ढोकितः शूलिकान्तिकम् । मातङ्गस्तावदाचष्टे रे स्मराभीष्टदेवतम् ||३२|| अवाचि श्रावणाथ भो भोः शासनदेवताः । साथमिक्सुखासक्ताः शृण्वन्त्वेकं वत्रो मम ||३३|| दुष्कर्मणोऽस्य कर्ताऽहं यद्यस्या ( स्म्य) शुभदायिनः । तदा यूयं विजानीध्वमर्हद्धर्मोपकारिकाः || ३४ ॥ इत्युदीर्यं स्वयं शूलामारुरोहेष साहसी । नमस्कारं स्मरेंश्चित्ते परलोकपराङ्मुखः ।। ३५ ।। तावत्सिहासनं जज्ञे शूलास्थाने महत्तमम् । चकासामास तत्रैष व्योमाग्र इव चन्द्रमाः || ३६ || सुरैर्जयजयारावक्र तद्गुणरखितैः । भूपः सन्मुखमेत्येनं निन्ये गाढोत्सवैः पुरम् ||३७|| गजेन्द्रस्कन्धमारोप्य प्राप्य स्वगृहंमादरात् । दुकूलैः स्वर्णवस्त्राद्यः सत्कृत्य गृहमानयत् ||३८|| यथा श्रावकपुत्रेण न हि दोषा बभाषिरे । तथाऽन्यैरपि धन्यनों कार्य दोषप्रकाशनम् ।। ३९ ।। ।। इति परदोषाप्रकटनोपरि श्राद्धपुत्रकथा ||
अथ दर्शादिधं विनयं प्रकटयन्नाह
।। २२९
T