________________
२२५।।
परोपपहासं न कहिंपि कुज्जा, लहुत्तणं जेण जणो लहिज्जा ।
परस्स वासेसु मणं न दिज्जा, धोमं नरो धम्मधुरं धरिज्जा ||३१||
व्याख्या---पः स्वस्मादन्यरूपस्योपहासः परोपहासः परदोसोद्घाटनं तं न कुत्रापि समविषमदशायामपि कुर्वीतेति शिष्टाचारः, येन कृतेन जनो लघुत्वं लभेत । तथा परस्य दोषेषु मनो न दधीत । धीमान्नर एवं कुर्वन् धर्मधुरां धरेदिति काव्यार्थः ॥ ३१॥
एतदुपरि दृष्टान्तमाह
| साधारण श्रेष्ठिकथा ||
एकदा निर्मदात्माऽगादनगारशिरोमणिः । चित्रकूटमहादुर्गं साक्षात् स्वर्गमिव श्रिया ॥ १ ॥ जिनवल्लभसूरीन्द्रः शिष्यप्रग्रहभासुरः । विहरन् संहरन् सूर इव मिथ्यावदुस्तमः ||२|| वसती याचितायां तद्वासिलोकोऽददात्तदा । सापहांस चण्डिकायाचैत्यमत्यन्तदुधियः ||३|| धर्मैकतानधी: सूरिवात्सीत्तत्र शिष्यकः । रात्रादेकः समुत्थाय प्रायः केलिप्रियत्त्वतः ||४|| भैरवीचक्षुषोर्द्वन्द्रमुच्चखानातिकोपतः । शिशोरुत्पाटयामास नेत्रेऽसौ ( स ) दुःखितोऽरुदन् ॥५॥ गुरुर्ज्ञात्वा समाकृष्य पशुवद्धयानरज्जुतः । तामाह चण्डिके दण्डे शिष्यकस्यास्य का गतिः || ६ || वेगाद् ग्युगमेतस्य
श्री ठाणगेच ठाणेह हासुप्पपत्ति सिया, तंजहा - पासित्ता मासित्ता सुणित्ता संभरिता । यथाच - "आया रपन्नत्तिधरं, दिविायमहिज्सगं । वायवक्वलियं नच्चा न तं उवहसे मुणी ||१||" इत्यपि ज्ञेयं ।
॥२२५॥