________________
उपदेश
१२२०॥
व्याख्या - क्रोध आदिर्येषां ते क्रोधादिकाः । षट् च दश च षोडश ये कषायाः प्रसिद्धरूपाः । कपायेषु क्रोध एव मुख्यस्तदनुवर्त्ती मानश्च द्वयीरेतयोरविनाभाव:, यत्र क्रोधस्तत्र मानेनावदयं भाव्यम् । यत्र च माया तत्र लोभः एतयोरपि एकाश्रयित्वं यः पुमान् मायावान् सोऽवश्यं लोभाभिभूत एव यः कविनिर्मायः स निर्लोभ एव । ते व कपाया: क्रोधमानमायालो भरूपाश्चत्वारः प्रत्येकं संज्वलनप्रत्याख्याना प्रत्याख्यानानन्तानुबन्धिभेदेन पोडश बोद्धव्याः । सं ईषत् ज्वलयन्ति चारित्रिणमपीति संज्वलनाः । प्रत्याख्यानावरणा. सर्वविरतिनिषेधकाः । विद्यते प्रत्याख्यानं देशसर्वविर तिरूपं येषु तेऽप्रत्याख्यानाः । अनन्तं भवमनुबन्धन्तीति अनन्तानुबन्धिनः । यद्यपि चंयां शेषकषायोदयरहितानामुदयो नास्ति तथाप्यवव्यमनन्तसंसारमूलकारण मिथ्यात्वोदयाक्षेपकत्वादेषामेवानन्तानुबन्धित्वव्यपदेशः । यदुक्त' - - " जाजीववरिमच उमास पक्खगा निरयतिखिरा अमरा । सम्माणुसब्दविरईअहवखायच रित्तधायकरा ॥१॥" व्याख्या - यावजीचं (व) वर्षादीन् गच्छन्तीति उप्रत्ययः । व्यवहारत इत्युक्तं, अन्यथा बाहुबल्यादीनां पक्षादिपरतोऽपि संज्वलनाद्यवस्थितिः श्रूयते । अन्येषां संयतादीनां चानन्तानुबन्ध्यादीनामुदयस्य श्रवणात् अन्तर्मुहूर्तादिकं कालं यावत् । कारणे कार्योपचा रात् कषाया अनन्तानुबन्ध्यादयोऽपि नरकादिदा इदमपि व्यवहाराश्रितमेव, अन्यथा ह्यनन्तानुबन्ध्युदयवतामपि मिथ्याध्शां केषांचिदुपरितनग्रैवेय के पूत्पत्तिः श्रूयते । प्रत्याख्यातावरणोदयवतां देशविरतानां देवगतिः । अप्रत्याख्यानोयवतां च सम्यष्टिदेवानां च मनुष्यगतिः । अथ एभ्यः पोडशभेदेभ्यः चतुःषष्टिभेदा अप्युद्धाविताः संभवन्ति । यथा संज्वलनः संज्वलनक्रोधः, संज्वलन प्रत्याख्यानकोव, संज्वलनोऽप्रत्याख्यान क्रोधः, संज्वलनोऽनन्तानुबन्धिक्रोधः । एवं
सप्तनिका
॥२२७