________________
उपदेश
२०
वन्दे गणथरवृन्दं विवेकधच्छे कनिर्मितानन्दम् । यश्चरणनमस्करणं निविडमहाजडिमभयहरणम् ||३|| श्री वाग्देव कुरु प्रसादमसमं यस्मादहं सम्मतिः स्यां दुर्बुद्धिरपि प्रविणपरिपत्सन्मानदानोचितः । किं कृष्णाखनपर्वतोsपि धवलीभावं भजेनासा, गौरोदारसुधांशुदीधितिभरैः सम्बन्धमासादितः ॥४ ॥ सद्गुरुचरणं शरणं कुर्वे सर्वेऽपि यत्प्रसादेन । विद्याविनोदलेशा जायन्ते सफलताभाजः ||५|| - नो वाचश्चतुरोचिता मम मुखे नो कौशलं पेशलं किविचेतसि पाटवं न हि सदाचारे विचारेऽप्यहो । मौखर्यं रचयन्निहास्मि यदहं धर्मोपदेशच्छलात्तञ्चिन्तामणिकल्प सद्गुरुपदद्वन्द्वप्रसत्तेः फलम् ॥६॥ अज्ञानान्धित लोचना न हि जनाः संविद्रते कुत्रचिन्मोक्षाध्वानममानमानविवशाः संसारकान्तारगाः । यावन्नो सुगुरूपदेशचतुराग्रण्यः समापद्यते, सत्यस्मिन्निह कौशल सविपुलं दुर्बोधशास्त्राध्वनि ॥ ७ll इह भव्य सत्त्वचेत प्रतिबोधकृते प्रतन्यते मयका । स्वकृतोपदेशसप्ततिकायाः स्पष्टाक्षरा टीका ||८|| इह हि भव्यजीवराजीव काननसमुद्भासननव्यदिनकरादीधितितुल्याया अभङ्गसंवेगरङ्गचङ्गसदिक्षुक्षेत्र परंपरापरिवर्धननिर्मलजल कुल्याया अगण्यगुणश्रेण्याधारजनमनोहारप्रसरत्पुण्यप्राग्भारप्रोत्तुङ्गशृङ्गमहाविहारशिरः पताकिकाया: श्री. उपदेशसप्ततिकाया वृत्तिविरच्यते । तस्याश्च प्राकृतमयमिदमादिकाव्यं तद्यथा
तित्यंकराणं चरणारविंदं, नमित्तु निसेससुहाण कंदं । मूढो वि भासेमि हिउंबएस, सुणेह भव्या सुकयप्पवेसं ||१||
सप्ततिका
॥२॥