________________
11811
॥ अहंम् ॥ तपागच्छालङ्कार तपोमूर्ति पूज्याचार्यदेव श्री विजयकरसूरिभ्यो नमः खरतरगच्छीय श्री क्षेमराजमुनिविरचिता स्वोपज्ञवृत्तियुता
| उपदेशसप्ततिका ॥
900
| नमो गुरुचरणेभ्यः ।
विश्वाभीष्टविशिष्ट कार्यघटनासामर्थ्य मत्यद्भुतं बिभ्राणः शुचिसच्चरित्रविलसच्चित्रैः सदाऽलङ्कृतेः । प्रेङ्खाणिदयामृतेन भरितः सद्वृत्तताशालितः, श्रेयः श्रीशिरसि स्थितः सृजतु शं शान्तीश्वरः स्वर्घटः || १३| श्रेयोरा जिस रोजिनी दिनकरा भक्ताङ्गिभद्रङ्कराः, सर्वावद्य महाद्रुसिन्धुरवरा ज्ञानश्रिया बन्धुराः । ये भूताः किल भाविनोऽपि भुवने ये वर्त्तमानस्तथा ते सर्वेऽपि जिनेश्वराः सुखकराः स्युदेहिनां सेविनाम् || २ ||
॥१॥