________________
जस्ल
॥२१७॥
पितरो-पूर्वजपरम्परागतवित्तमिदं देहि भक्ष्व भोः स्वरम् । पश्चाद्वाईकसमये प्रतिपद्यस्व व्रतं भद्र ।७। कुमार:विभवे का प्रतिबन्धस्तस्करसलिलानलप्रलयभाजि । यस्माद्विरोधभाजः सुहृदोऽपि भवेयुरिह विश्वे 11७०॥ पितरौयद्वद्वब्बलतरोरालिङ्गनमिह सुदुष्करं पुंसाम् । तद्वत्सुखोचितानां भवादृशानां व्रताचरणम् ।।७९।। कुमार:-ये कातरा नराः स्युस्तेषामिह दुष्करं समग्रमपि । धीरात्मनां तु पुंसामसाध्यमिह किमपि खल नास्ति ।।८०।। व्रतनिश्चयमवगत्य क्षमाधिपस्तमभिषिच्य दिनमेकम् । राज्ये महाग्रहीत्यात्मजमित्यूचे मधुरवाचा ।।८१॥ कि दद्मस्तुभ्यमहो तदनु कुमारस्तमेवमाचख्यौ । देहि रजोहरणमथो पतद्ग्रहं नापरोऽस्त्यर्थः ।।८२॥ द्वयमपि लक्षद्वितयीदानादानाग्य मेदिनीमघवा । आर्पयदस्मै लक्षं समर्प्य पुनराह्वयदिवाकीतिम् ॥८३॥ चतुरङगली (लान्) विमुक्त्वा (च्य तु) केशानपसारयेत्यभाषत तम् । तेनापि तथा विहिते प्रसार्य पटमग्रहीद्देवी ।।८४॥ संस्नाप्य चार्चयित्वा पवित्रचेलाञ्चलेन तान् बद्ध्वा । आभरणकरण्डान्तर्गन्धद्रव्यनिचिक्षेप ।।८५।। भूयोऽपि काञ्चनमय: कलशरतिशीतलैः सलिलपुरैः । स्नानं च कारयित्वा विलिप्य हरिचन्दनर्देहम् ॥८६॥ परिधाप्य वस्त्रयुगली कनकमयभूषणविभूष्य भृशम् । निजकारितशिबिकायामारोप्य महीपतिः स्वसुतम् ॥८७।। पूर्वाभिमुखस्थापितपीठे विनिवेश्य शक्रवद्रुचिरम् । आत्मानममन्यत स कृतार्थमुत्तमसुताचरणात् ।।८८॥ धर्मध्वजादि लात्वा दक्षिणभद्रासने कुमाराम्बा । निषसाद सादविधुग धात्री वामस्थपीठाने १॥८९॥ एका तरुणी निदधौ कुमारशीर्षे स्फुरत्प्रभं छत्रम् । तत्पावयाः सुरूपे चामरहस्ते स्थिते ना? ।।९०॥पूर्वस्यां | व्यजनकरा हुतभुगभङ्गारपाणयश्वास्थः। स्वर्वनिता इव वनिताः स्व (सु) रूपलावण्यगुणमहिताः ॥९१।। समरूपयौवनानां