________________
२११ ॥
बालमृति जीवोऽनन्तयोनिध्वनारतम् । आत्मानं दुःखितं कुर्यादनार्याचारचञ्चरः || १४ || प्राज्ञमृत्या पुनर्जीवः संसार लङ्घयेदलम् । एवं वीरोक्तिमाकर्ण्य स्कन्दकः प्रतिबुद्धवान् ||१५|| भवारण्यमिदं स्वामिन् जराजन्ममहाग्निना । प्रदीसं भगवन्नास्ते किं करोमि ? समादिश ॥ १६ ॥ यथा गृहे गृहे दीप्तेऽग्निना वस्तुसमुच्चयम् । वहिर्निष्काशयेत्सारं तथात्मानमहं प्रभो ||१७|| बहिनिःसारयिष्यामि युष्मत्पदनिषेवणात् । ततोऽसौ व्रतमात्य पालयामास निश्चलः ||१८|| वत्स यत्नेन गन्तव्यमासितव्यं च यत्नतः । भोक्तव्यं प्रयत्नेन भाषितव्यं प्रयत्नतः ॥ १९ ॥ न हि प्रमादिना भाव्यं संयमे संयतात्मना । एवंविधाभि: शिक्षाभिः शिक्षितः स्वामिना स्वयम् ||२०|| एकादशाङ्गया अध्येता कृतोदना अभूत् । श्रीवीरोपास्तिरक्तात्माज्जगाराध्वनि धीरधीः ||२१|| प्रतिमा द्वादशासौ च सिषेवे गुर्वनुज्ञया । ततव गुणरत्नाद्यवर्षात्तमकरोत्तमः ||२२|| चतुर्यपष्ठदशमाष्टमद्वादशसंज्ञकः । मासार्द्धमा सक्षपर्णस्तपोभिविविधात्मकैः ॥२३॥ मानसे भावयन्नास्ते नित्यं द्वादश भावनाः । कृशाङ्गः सुतरां जज्ञे निर्मांसः शोणितोज्झितः ||२४|| यात्यायाति च सत्त्वेन केवलेनाङ्गना । समुद्गिरन्नपि गिरं ग्लायस्यग्लानकोऽपि सन् ||२५|| श्रीवोरादेशमासाद्यानयनं स प्रपेदिवान् । शोभनाध्यवसायः सन् पादपोपगमं व्यधातु ||२६|| इत्थं स स्कन्दकः साधुर्वतं द्वादशवत्सरीम् । पाल्य कालधर्मेणाच्युतं स्वर्गमथासदत् ||२७|| ततश्च्युत्वा विदेहाख्ये वर्षे जन्माध्य सत्कुले । सिद्धि प्रयास्यति क्षिप्रं प्रक्षीणाशेषकर्मकः ॥ २८॥ इत्थं श्रीस्कन्दकोदन्तमतिथीकृत्य कर्णयोः । तपस्यायामविश्रान्तं धन्यैः कार्यः परिश्रमः ||२९|| ।। इति तपाविषये स्कन्दष्टान्तः ।।
।।२११।