________________
०५11
ताभिर्नभश्चरं सर्वमपि हि कुर्वाताम् । वैताढयशैलशीर्षे श्रेण्योः सद्दक्षिणोत्तरयोः ॥१२॥ षष्टिपुराण्युत्तरदिशि पञ्चायइक्षिणाब्धयश्रेण्याम् । विनिवेश्य कुरुत राज्यं समादिदेशेति भोगीन्द्रः ॥१३॥ जिनचत्यानां च जिनानां च तथा । चरमदेहिनां यतिनाम् । कायोत्सर्गकृतामथ पराभविष्यन्ति येऽत्यधमाः ।।१४॥ बलवत्तया नभोगाः परवनितालुब्धमानसा ये च । मोक्ष्यन्ति तान् कुशिष्यानिव विद्याः सर्वथा सद्यः 11१५॥ प्रकटितनिश्चलशिक्षामित्यहिनेतुः प्रशस्तिमालिख्य । तो तत्प्रसत्तिमुदिताबानम्य युगादिजिनराजम् ॥१६।। बन्दित्वा चाहीशं विमानमाधाय पुष्पकाभिख्यम् । आरुह्य तदतिरम्यं कच्छमहाकच्छयोः प्रदर्य पुनः ।।१७।। श्रीमद्य गादिसद्गुरसेवोर फलं निवेद्य भरतस्य । आदाय स्वजनजनं सर्वं गत्वा च वैताढय ।।१८।। श्रेण्युत्तर दक्षिणयोः संस्थाप्य पुराणि चातिरम्याणि । निष्कण्टक राज्यसुत्रं नमिविनमिभ्यामनुबभूवे ।।१९।। बहकालमाकलय्य श्रियममलाप निकल जनयुपेत्य । श्रीसिटिशैलशीय केबलबोघं सम्पलभ्य ।।२०।। कोटिद्वयसाधुयुतावक्षयपदमापतुस्तको ससादतः प्रान्ते । सद्गुरू सेवाफलमिदमिह बोद्धव्यं समग्रमपि
२१।। यदहिकामुष्मिककार्यसिद्धिः, समद्धिवद्धिश्न विशुद्धबुद्धिः । म सद्गुरूपारितभरानुभावः, सर्वोऽप्य यं चेतसि वेदितव्यः ॥२२॥ एवमात्मनि विचिन्त्य सुधीभिः, सद्ग्रोः पदपयोम्हसेवा । सर्वकालममलेन विधेया, मानसेन साल शुद्धमेधसा (मलेन) ॥२३॥
॥ इति सद्गुरूपास्तिविषये नमिविनमिष्टान्तः ।। अथ द्वितीयपदे "धम्मक्खराणं सवर्ण वियारणं" इति प्रकारद्वयमेकस्मिन्नेव दृष्टान्ते समवतार्यते । पूर्व तावद्धर्माक्षराणां श्रवणमाकर्णनमेवातीव दुर्लभ । तदन् तदर्थविचारणमतीव दुरापं। सम्यगर्थपर्यालोचनं तु सुकृतिनामेव घटा
।।२०।।