________________
॥२०३॥
चतुर्द्दशोनिश्यय संगतायां, कादम्बिनी भृङ्गकुलासितायाम् । आराधयामास तमेव मन्त्रं स यामयुग्मापगमे स्वतन्त्रम् ।। १८ ।। मन्त्रप्रभावेण कपदं नामा, यक्षो बभूव प्रकट: सधामा । तं निं प्राह चतु:सरस्य, माल्यस्य देवार्चनयोजितस्य ।। ११ ।। त्वयाजितं पुण्यफलं यदायं तद्देहि मे श्रेष्ठिवरानिवार्यम् । तदोक्तमेतेन ददे शरण्यं कस्यापि नैकस्य सुमस्य पुष्यम्।।२०।। तदीयधर्मादतिरञ्जितेन श्रीमजिनाज्ञाचरणाश्रितेन । तुष्टेन यक्षेण दयां विधाय साधमिकत्वं हृदये निधाय ||२१|| आविष्कृताः स्वर्णभृता विशालाश्चत्वार उच्चाः कलशा रसालाः । चतुर्षु कोणेषु महालयस्यामुष्याकंविम्बोदय वत्प्रशस्याः ।। २२ ।। कृत्वेत्यदृश्यत्वमचाप यक्षः, प्रज्ञाप्य चैतद्धनदाय दक्षः । अथ प्रभाते स्वगृहं जगाम श्रेष्ठी प्रमोदातिशयाभिरामः ||२३|| स्वधर्मनिन्दा करणोद्यतेभ्यस्तदा निजेभ्यो धनदः सुतेभ्यः । तदर्पयामास रयादगण्यं, यक्षप्रदत्तं सकलं हिरण्यम् ॥२४॥ पितुः समीपाद्धनलाभहेतुं विपत्पयः पूरनिषेधसेतुम् । आपृच्छय संशीतिविमुक्तचित्तास्तेऽपीह जाताः परिलब्धवित्ताः ॥२५॥ ततः परं याचकदत्तदाना, अर्हन्मताराधनसावधानाः । पूजाविधि तीर्थकृतां सृजन्तः संघस्य भक्ति परिकल्पयन्तः ||२६|| प्रभावकाः पुष्यपथस्य सन्तः सुतास्तदीयाः कृपयोल्लसन्तः । तत्रैव पुर्यां शशिमण्डलाभं चक्रुः परेषामपि बोधिलाभम् ||२३|| ॥ इति पूजाविषये धनदकथा ||
अथ सद्गुरोः सेवाफलमुद्गीयंते । सद्गुरोः सेवा इहलोक परलोकाद्यर्थसार्थसाधिनी स्यादिति अत्रार्थे श्रीनमित्रिनमिज्ञातमातन्यते ।
श्री ऋषभजिनदीक्षादाने नमिविनमी कच्छमहाकच्छराजतनुजो न तीर आसतां पश्चादागत्य राज्यश्रीभाराभिला
१२.३