________________
उपदेश
॥१०२॥
श्रीरामनामा पुरि तत्र राजा, कलाकलापेन नवः स राजा । श्रेष्ठी धनाढ्यो धनदोऽस्ति तत्र, श्रीदोपमोडनल्परमापवित्रः ॥४॥ चत्वार एतस्य सुताः प्रवीणा, जाताः कुलाचारविधी धुरीणाः । अन्येद्य रन्तर्धनदेन शिष्टं श्रेष्ठिप्रधानेन पुत्रसृष्टम् ||५|| महाबलान्दोलितकेतुकल्पं स्यादस्थिरं राज्यरमादानलम् । अतीमलोलं भुवि जीवितव्यं, स्याद्योवनं बुद्बुदवत्सु दिव्यम् ||६|| पाथोजिनीपत्रपृषत्समानं, मानुष्यकं कल्पतरूपमानम् । सर्वेऽपि भोगाः क्षणभङ्गुरास्ते, पुण्यार्जनं जीवितसारमास्ते ॥७३॥ स्वयं विमृश्येत्यमुना विहारः श्रीतीर्थनेतुः प्रहृतान्धकार: । श्रिया जितोद्दाममरुद्विमानः, प्रकारितः प्रोच्चनगोपमानः ॥ ८ ततः परं भूरिधनैः प्रतिष्ठा, निर्मार्पिता पुण्यगणालधिट्ठा । श्रीतीर्थकृद्विम्बकदम्बकस्य, स्पष्टोत्सवैर्दुष्टतमो निरस्य ||९|| पूर्वभवान्तरायप्रोद्दामकमदयतो विमायः । बभूव निःशेषधनैवियुक्तः, पद्माकरो वा कमलैविमुक्तः ||१०|| स्वनिर्धनत्वादयतां विमुच्य श्रेष्ठी परीं धर्ममतिः स रुच्यः । कृत्वा स्थिति तत्पुरपार्श्ववतिग्रामे स्म निर्वाहविधि भित||११|| पुनः पुनस्तस्य पुरस्य यातायातेन वृत्तिं कृतवान् प्रमाता । कियन्तमप्येष किल स्वकालं, दौःस्थ्यादतिक्रामितत्रात् विशालम् । १२ । अथैकदाऽऽयात मवेक्ष्य घुर्य, श्रीमञ्चतुर्मासकपर्व वर्यम् । सुतैः स्वकीयः सममाप सारां, पुरीमयोध्यामवनाबुदाराम् ।।१३।। स्वचैत्यसोपानलताधिरूढः, स यावदास्ते मतिमानमूढः । चइःसरा मालिकयाsस्य माला, पूजाकृतेऽदायि तदा रसाला || १४।। पुष्पैः समभ्यर्च्य जिनाधिनाथं विनिर्मितोद्दामतमः प्रमाथम् । चित्ते पुनः प्राप निजे प्रमोद, केकीय दृष्ट्वा गगने पयोदम् ॥१५॥ रात्री समागत्य गुरोः समीपेऽग्रतः स्थितोऽयायमलीव नीपे । एकान्तमालोक्य निनिन्द दुःस्यः स्वरोरभावं सुगुरोः पुरःस्थः १६ आकर्षकारी गुरुभिः प्रदत्तः कपयस्य तदातिवित्तः । परोपकारप्रविधानदक्षैर्मन्त्रोऽस्य धर्माध्वनि बद्धकक्षैः ।।१७।।
सप्तति
॥२०