SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ व्याख्या-पूजनं पूजाअष्टभेदा सप्तदशभेदा तथैकविंशतिधा सिद्धान्तप्रतिपादिता द्रव्यभावभेदभिन्ना वा कार्या श्री. जिनानां रागद्वेषजेत्ऋणां । तथा सुष्ठु तत्त्वमा गृणन्तीति सुगुरवस्तेषां सेवनं पर्युपासनं । यथा श्रीउत्तराध्ययनेषक्त"अभदाणं अंजलिकरणं तहेवासणवायः । गुरुमति नानासादिगो एस वियाहिओ ॥१॥" इत्यादिगुरुसेवाक्रमः स्वीकार्यः । तथा धर्ममयान्यक्षराणि धर्माक्षराणि तेषां श्रवणं निरन्तरं कार्य, सुगुरुसेवायाः फलमेतदेव, एवं कुर्वतां श्रावकत्वं यथार्थ स्यादिति हेतोः । तथा श्रवणस्यैतत्फलं यत्तत्त्वानां विचारणं, विचारे क्रियमाणे बुद्धिगुणाः प्रादुर्भवन्ति । तद्यथा-"शुश्रूषा श्रवणं चैव ग्रहणं धारण तथा । ऊहापोहोऽर्थविज्ञानं तत्त्वज्ञान च धीगुणाः ॥१॥" इति । तथा तपसो द्वादशभेदस्य विधानं । तथा दानदायनं दीयते यत्तद्दानं स्वयं दानं अन्यस्माद्वा दापनं । एतत्समकं कृतं सत् सप्तश्वभ्रादभ्रात्तिनिवृत्तिकारकं स्यात् सुश्रावकाणां तथा प्रचुरपुण्यप्राग्भारभाजनं भवेदिति संक्षिप्तार्थः । व्यासार्थस्तु दृष्टान्तेभ्यः कथयिष्यत इत्यर्थः ।। अथ प्रथमतोऽहंदर्चाविषये धनदकथा लिख्यते-- ॥ धनदकथा ॥ J२०१॥ प्रयाति दूरे दुरितं समस्तं, भवेत्करस्थायि सुखं प्रशस्तम् । निकेतनं संपदलङ्करोति, वपुः शिवश्रीः स्वबशं तनोति ।।१।। ऋरः कथञ्चिन्न कलिर्दुनोति, न धर्मवल्लीमयशः सुनोति । पूजाविधानाजगदीश्वरस्य, पदद्वयानम्रसुरासुरस्य ।।२। युग्मम् ।। पुरी मनोज्ञाप्रविभात्ययोध्या, भव्यावली यत्र सुखप्रबोध्या । इभ्याः स्फुरहानपयःप्रवाहाः, किं प्रावृषेण्या इव बारिवाहाः ||३|
SR No.090524
Book TitleUpdeshsapttika Navya
Original Sutra AuthorKshemrajmuni
AuthorJinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages486
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy