________________
तमेन तपसाऽश्रान्तमग्निनेवातिनिर्भरम् । दंदह्यन्तेऽखसा दुष्टकर्मोद्यत्तणराशयः ॥२४|| पूर्व हत्याविधातारोऽनेकेऽपि परिनिर्वताः । ज्ञानक्रियातपःकष्टर नुहानैरनेका ।।२५।।
तत: सविनयं सोऽवक्, जघन्येनाष्टमं विना । न भोक्तव्यं मया, स्वामिन्नपरं चावधारय ॥२६॥ 11१७11A
यदि कश्चित्समागत्य, वक्ता भो भोजनं कुरु । तदा भोक्ष्येऽकृतं नापि, कारितं प्रासुकं स्वतः ॥२७11 यदि सजो भविष्यामि, प्रजिष्याम्यहं तदा । स्थाताऽस्मिन्न हि गार्हस्थ्ये, नियमोऽस्त्येष मे तथा ॥२८॥ माम्प्रतं न हि शक्तोऽस्मि, व्रतादाने च पालने । इत्थं निश्चयमादृत्य, शालः स्वगृहमाययौ ॥२९।। तस्थुदिनत्रयं तत्र, गुरवो भाग्ययोगतः। कियत्यपि गते काले, तत्तपस्याप्रभावत: ॥३०॥ करुणापूर्णहृद्देवस्तं व्यमुञ्चद्वराककम् । किमेतेनादितेन स्यात्, (फलमिति) फलं चेति विमृश्य सः ॥३१।। नतः स पार्श्वमासाद्य, गुरोर्दीक्षामुपाददे । षट्कायरक्षणे दक्षः, सम्यक्त्वाधिष्ठितात्मकः ॥३२।। कृतोदग्रतषाः पापनिर्मूलनसमर्थधीः । सिद्धान्तार्थावबोध्धा च, क्रियायामुद्यतोऽभवत् ।।३३।। अधीत्यैकादशाङ्गीं स, गीतार्थोऽभूद्गुरोगिरा। बयावृत्त्यं च साधनां, साधयन्न श्रमं गतः ।।३४।। अनेका लब्धयस्तस्य, संपन्नास्तपस: श्रिया । गर्वनुज्ञामुरीकृत्यकाकिप्रतिमयाऽचरत् ॥३५॥ हस्तिनापूमहोद्याने, तस्थौ प्रतिमया स्थिरः । तत्रस्थव्यन्तरेणास्योपसर्गाः प्रवितेनिरे ॥३६।। | मन:शुद्धयाधिसोढुं स, लग्नो मग्नः शमोदधौ । क्षपकणिमारुह्य, केवलज्ञानमासदत् ॥३७॥
॥१७७