________________
समतिका.
उपदेश-18 नरकादिकदुःखौघमसावनुभवरततः । स्वजनमुहमानिन्ये, पापपुखैः पराजितः ।।११।।
आक्रान्दाग्निर्भरं कुर्वनसातादयदुःखितः । वैद्यानाहूय दत्वा स्वं, सगीनैर्दशितस्तदा ॥१२॥ मणिमन्त्रोषधर्नानाविधैः प्रगणितैरपि । न गुणोऽस्य मनापजज्ञे, दीनवृत्तिमुपेयुषः ॥१३॥
भार्या भक्तिपरा नास्य, न माता मन्यते वचः । स्नुषापि सरुषा गाढं, भ्रातरोऽपि पराङ्मुखाः ॥१४।। ७६॥
सर्वः परिकरोऽप्यस्य, वैरिभावमुपेयिवान् । दुष्कर्मण्युदयं प्राप्ते, न हि त्राणं शरीरिणाम् ॥१५॥ सर्वः परिजनो वक्ति यद्योष म्रियते तदा । जायामहे वयं तहि, सुखिनः स शृणोति च ।।१६।। . देवो नवनवां बायां, विधत्तेऽङ्गस्य पापिनः । पूच्चकार भृशं सोऽपि, जनश्रुतिकटुस्वरैः ।।१७॥ इतस्तत्प्राक्तनाचीशुभकर्मोपशान्तितः । तस्मिन् ग्रामे तदीयौक पार्श्व केवल्युपाययौ ॥१८॥ व स्वाध्यायध्वनिमाकर्ण्य, कर्णामृतसहोदरम् । स साधूनामदश्चित्ते, चिन्तयामास शालकः ॥१९॥
पृच्छाम्येतान् यदा गत्वा, तदेते सदगणावहाम् । काश्चिच्छिक्षां प्रयच्छन्ति, यथाऽहं स्यां सुखी ध्रुवम् ।।२०।। विमृश्यवं गुरूपान्ते, कथञ्चित्सोऽथ जग्मिवान् । आतिभाजो नरा: प्रायः, स्युर्देवगुरुसेविनः ॥२१॥
पप्रच्छ स्वच्छधीरेवं, स्वामिन् कश्चिनिशाक्षणे । क्षणोति तीक्ष्णशस्वैर्मामत्राणं सर्वदमणि ॥२२॥ KAगुरवः प्रोचुरेवं भोः, प्राकृतानां हि कर्मणाम् । वेदयित्वाऽस्ति वै मुक्तिरभुक्तानां पुनर्न हि ॥२३॥
१, यत्प्राग्भवे हताः सत्त्वास्तत्त्वार्थविकलात्मना । त्वदङ्गसंङ्गिना तेनागापा बाधाऽभवद्भशम् ॥२४।। प्रक्षिप्तोऽयम्
11१७६॥