________________
11१७५॥
सम्यक्त्वं सम्यकतत्त्वरूपं, मिथ्यात्वं तद्विपरीतं सुतरामतिशयेन परीक्ष्य सम्यग्विवेचनं कृत्वा। अथ च सिद्धान्ता आप्तोक्तास्तेषामर्थ व्याख्यानरूपं टीकाभाष्यनियुक्तिचूणिप्रतिपादितं पुनः शिक्षयित्वा समवबुध्य सुखी स्याद्गुरुविदितः प्रकारर्यतिनं निश्चितं जगति नापरः कश्चिदिति काव्यार्थः ।।२५।। एतदर्थोद्भावकं शालदृष्टान्तमाह
॥ शालदृष्टान्तः ॥ अस्तीह भारते वर्षे, हर्षेणापरिते घनैः । शालिग्राम इति ग्रामः, शालिनिष्पत्तिशालितः ।।१॥ अत्राभूत क्षत्रियः शालः, शालमानो निजः । ग्राभ्याको कमाननीयो, ग्रामणीत्वेन सर्वदा ॥२॥ आसन्नसिद्धिकोऽप्येष, कुग्रामवसतेवंशात् । घातकोऽजनि जन्तूनां निर्मन्तूनामपि क्षणात् ॥३॥
मृषावक्ता परद्रव्यहर्ता भोक्ताऽन्यसुभ्रुवाम् । लघुकर्माऽप्यसत्कर्मासक्तोऽजनि निरन्तरम् ॥४॥ A अन्यदा तेन पापद्धिप्रयातेन दुरात्मना । ग्रामादायान् वणिग्दृष्टः, पत्रीष्वासनधारिणा ।।५।।
लुंटित्वा सर्वमप्यस्य, रवमेकान्ते प्रगृह्य च । जधान खड्गेघातेन, मद्वार्ता वेत्ति कोऽपि नो ।।६।। किञ्चित्सद्ध्यानयोगेन, स मृत्वा व्यन्तरोऽजनि । संस्मृत्य प्राग्भवं स्वीयमपश्यच्छालवरिणम् ।।७।। मत्पुरस्तात् प्रयातष क्व पापात्मेति चिन्तयन् । तत्समीपमनुप्राप्तः, सुनिष्ठुरमुवाच तम् ।।८।। मां निहत्य क्व यासि त्वं, रे दुरात्मन्नहं रुषा । त्वत्केटके विलग्नोऽस्मि, भस्मग्रह इवाङ्गवान् ।।९।। इत्युदित्वा विवेशाङ्गमेतदीयं स राक्षसः । दुःसहां वेदनामाशु सर्वाङ्गेष्वस्य निर्ममे ।।१०।।
॥१७५।