________________
उपदेश
।।१७४।।
भिल्लैर्बद्ध्वा चन्द्रराज्ञः समानीयोपढी किती । तत्रापि हि मिथः क्रोधात् युध्यते तो समुद्धती ||३०|| रक्षितौ तौ हस्तिपर्क महाकष्टात् कथञ्चन । अथो केवलभृत्तत्रागात्सु दर्शनसाधुराट् ||३१|| तन्नमस्याचिकीर्भूपः, सावरोधः समेतवान् । श्रवणातिथिमानीय, देशनामेष पृष्टवान् ||३२|| किमेतयोर्महावरं, भगवन् करिणोर्भण । पूर्ववृत्तान्तमाचष्ट ततः स्पष्टगिरा प्रभुः ||३३|| तदाकर्ण्य स्वकणीभ्यामभ्यर्णीभूतसंवरः । राज्ये संस्थाप्य पुत्रं स्वं स्वयं दीक्षामुपाददे ||३४|| वर्द्धमानमहाक्रोधी, प्रपद्य मरणं गजी । जग्मतुः प्रथमं श्वभ्रमदश्रासुखसंकुलम् ॥१३५॥ तप्त्वा श्रीचन्द्र राजर्षिवीर तीव्रतरं तपः । सिद्धिश्रीरमणो जज्ञेऽनन्तसौख्यश्रियो गृहम् ||३६|| कुमार्गसंसर्गपरा नरा ये न धर्मतत्त्वप्रतिबोधभाजः । ते सूरवत्क्रूरतया प्रपन्नाः स्युर्दुःखिनस्तीव्र कषायभाजः ||३७|| ।। इति चन्द्रसूरष्टान्तः ॥
अथ सांसारिकजीवानां कषायोदयवत्तिनां समापन्नमहादौस्थ्यावस्थे गार्हस्थ्ये वसतां सतां न हि किचित्सौख्यमास्ते । यदि च महादुःखभांडागारे भवकारागारे किंचिच्छर्मास्ति तदा साधूनामेवेति दर्शयन्नाह - छज्जीवकाए परिरक्खिऊणं, सम्मं च मिच्छंसुपरिक्खिऊणं ।
सिद्ध तत्थं पुण सिक्खिऊणं, सुही जई होइ जयम्मि नूणं ||२४|
व्याख्या -- पडु जीवनिकायान् क्षित्यम्भस्तेजोवायुवनस्पतित्रसरूपान् परि समन्ताद्रक्षयित्वा पालयित्वा । अथ च
सप्ततिः
।। १७४