________________
सप्ततिक
उपदेश- मरचन्द्राभिधौ पुत्री, तस्यास्तां रूपशालिनी । बृहत्सुते ददौ यौवराज्यश्रियमिलापतिः ।।२।।
गणितो न पदातित्वेऽपि चन्द्रः क्रोधभाक ततः । जगामापरदेशीयभूमि रत्नपुरान्तिके ॥३॥ तदुद्यानतरुच्छायामाशिश्राय सुखेन सः । तावत्सु दर्शनं नाम, मुनीमीक्ष्य (नि वीक्ष्य) ननाम च ॥४॥ तद्धमदेशनासारस्वाभापीय हषतः । नियम जीवहत्याया, जग्राह गुरुसाक्षिकम् ॥५॥
कृतमन्तुरपि प्राणी, भूपादेशं विना मया । न हन्तव्य इति स्वान्ते, निश्चित्यष पुरं गतः ।।६।। ||१७२॥
जयसेनमहीभस्तत्र सेवा व्यधादसौ । दक्षदाक्षिण्यवत्त्वेन, वल्लीभोऽभून्महीशितुः ॥७॥ चन्द्रोऽन्यदाऽभाणि राजकान्ते शान्तेन चेतसा। कुंभः पल्लपतिर्वध्यस्त्वया योऽन्यन साध्यते ।।८।। स्त्रीगोब्रह्मशिशुवातघाती यः पातकी भृशम् । प्रच्छन्नं स निहन्तव्यः, सप्तः सन् मत्कृताज्ञया ॥९।।
इत्युक्ते जयसेनेन, सोऽभणन्न रण विना । हन्म्यहं नियमोऽस्त्येष, मम निष्कपटात्मनः ॥१०॥ PM तद्वचःश्रवणाद्राजा, रञ्जितो भृशमात्मनि । स्थापयामास तं स्वाङ्गरक्षक क्षितिवासवः ॥१शा
प्रविवेशान्यदा भीमस्तस्करोऽङ्ग इवामयः । देशमध्ये ततश्चन्द्रः, क्षितिपाल निदेशतः ॥१२॥ ससैन्यः सत्वरं तस्य, धावित्वा केटके हठात् । रुरोध दुर्गपन्थानं, सङ्कटे पातितस्तराम् ॥१३॥ ततोऽन्यत्राणनिर्मुक्तस्तस्यैव शरणं ययौ। नम्रस्तेनापि सच्चक्रे, वखाद्य : परिधापितः ॥१४॥ समानिन्ये स्वसार्थेन, भ्रातृवत्कृतवत्सलः । प्रसादपात्रं भूपस्य, कृत्वा प्रेषीच तं गृहे ॥१५॥
११७२