________________
उपदेश
।।१५२।।
समग्रेऽपि पुरे पौराः प्रचुरानन्दमेदुराः । अराजन्स कन्तपादपा इव पुष्पिताः ।।५२।। सुधनः सार्थवाहोऽथ गुरोर्नत्वा पदाम्बुजम् । शशंस भवतः स्वामिन्! गुणाब्धेस्तुल्यता कुतः ॥५३॥ इत्थमाख्यातरि प्रोचे, मुनीन्द्रः प्राग्भवे ह्ययम् । पुण्यकेतुस्तनूजो मे, समभूच्वाग्रहीद्व्रतम् ॥५४॥ मया सार्द्धं गुणाश्रीर्णा मत्समाचरणाश्रयात् । अनेन ननु धन्येनाभिज्ञेन शिववर्त्मनः ॥५५॥ अतस्तनूकृताशेषकर्माधर्मात्मताश्रितः । अनुभूयामरं जन्म बभूव गुणसागरः ॥५६ । पुण्यानुबन्ध सुकृतं परिणामस्तथा समः सुखावाप्तिस्तथा तृल्या, करग्रहमहोऽपि मे ॥५७॥ ममाप्येतास्तथा दध्वः, पूर्वजन्म प्रियाः स्फुटम् । ततश्वीर्णव्रताचारा अनुत्तरसूरा बभुः ||५८|| प्राक्तना वनिता एताः संप्राप्ताः केवलश्रियम् । सामग्रीमाप्य दुष्प्रापामपापात्मस्थिति श्रिताः ॥५९॥ समाकर्णेति बुबुधे, सुधनश्रेठपुङ्गवः । श्रावकं धर्ममन्येऽपि स्वीचक्रुर्बहवो जनाः ॥६०॥ हर्षेण हरिणा सूनुहरिसिंहस्य विश्रुतः । स्थापयित्वा निजे राज्ये, स्वात्मा निन्ये कृतार्थताम् ॥६०॥ पृथ्वीचन्द्रमहाराजबिरक्षुब्धमनःस्थितिः । व्रतं सुचिरमाराध्य, प्रबोध्य भविकव्रजम् ॥ ६२ ॥ स्वकीयमायुः प्रतिपाल्य पूर्ण, तूर्णं समुत्पादित केवलद्धिः । पृथ्वीन्दुनामा मुनिराजहंसः प्राणेश्वरोऽभूत्किल मोक्षलक्ष्म्याः ||६३ || ।। इति श्रीपुथ्वीचन्द्र राजर्षिकथानकम् ॥
पूर्व जिनाज्ञाराधनं प्रतिपादितं । अथ जिनाज्ञाराधनं बहुश्रुतगुरूपास्तिमन्तरेण सम्यग्नावबुध्यतेऽतस्तदुपदेशं क्रमा
सप्ततिक
।। १५२।