________________
।।१५१॥
हहा कथमह मोहचेष्टितानि विदन्नपि । स्नेहपाशेन बद्धोऽस्मि, यथा बागरया मगः ।।३८।। दाक्षिण्यं पितृमात्त्रणामार्ण गयि केवल । लोक नहं स्माता, भवोदारदवानले ।।३९॥ कदा चिदानन्दमयीमहीन सुखसम्पदम् । लप्स्येऽहं ? सन्मुनित्वेन, संयमाध्वनि संचरन् ।।४।। कदा गुरोः पदाम्भोजरजः स्वशिरसा स्पृशन् । वपुः पवित्रयिष्येऽहमहङ्कारपराङ्मुखः ? ॥४१॥ पदप्रण मनप्रहमतिर्यतितते रहम् । कदा मुदा सहिष्यामि ? दुःसहाँश्च परीषहान् ।।४२।। विचिन्तयन्निति स्वान्ते, शान्ते रागोदयात्ययात् । अपूर्वकरणं प्राप्य, निष्पापव्यापमानसः ।।४३।। घातिकर्मक्षयं कृत्वा, छित्वा संसारबन्धनम् । संप्राप केवलज्ञानमज्ञानोग्रतमोऽपहम् ॥४४॥ गुणाब्धिकेवलिप्रोच्यमानमाश्चर्यमीदृशम् । सुधनः सार्थपः श्रुत्वा, चेतसीति व्यचिन्तयत् ।।४५।। अथापच्छन्महीशक्रः, कुतो हेनोस्तवोपरि । अस्माकं स्नेहसम्बन्धस्ततः प्रोवाच केवली ।।४६।। त्वं राजन् ! पुरि चम्पाया, विजयी जयनामराट् । आसी: प्रियमतीभर्ता, धर्ता गुणगणश्रियाम् ।।४७।। कुसुमायुधनामाह मभूवं त्वत्सुतः पुरा । सुरः संयममाराध्य, बिमाने विजयाऽजनि ।।४।। अहं पुनस्तत: सर्वार्थसिद्ध त्रिदशोऽभवम् । आवयोरत्र संजज्ञे, संयोगस्तृष्टिपुष्टये ।।४९।। तस्मान्ममोपरि स्नेहा, स्वामिन् ! युष्माकमद्भुतः । मिथः प्रजल्पतामित्थं, जातिस्मृतिरजायत ॥५०।। ततः कर्मक्षयावाप्त केवलज्ञानशालिनाम् । अमरमहिमाधिक्यमकारि प्रमदोद्धरैः ।।५१॥