________________
न हस्तिनश्र तुरगान, दुर्दमान दमयत्यसो। न कठोरगिरं वक्ति, बदने सदनेऽप्यहो ।।१०।। भक्तिमात्यन्तिकी धत्ते, जननीजनकोपरि । न कोपारुणताऽस्यासीदृशोरप्यपराधिनि ॥११॥ जिनार्चायासक्तचेतस्कः, साधुसंसेवनोद्यत: । तन्मतिः शस्त्रचिन्ताम्धी, ममजार्थभरे न हि ॥१२॥ नवोनयौबनारम्भसंभवद्रूपसंपदम् । न तं स्मरविबाधात्तिव्यंबाधत मनागपि ॥१३॥ न हस्तिष्वपि शस्तेषु, तस्यासीत् प्रीतिरात्मनः । न रथाः सत्कथास्तस्य, तुरङ्गा न तु रङ्गदाः ।।१४।। हर्षोल्लासा न चापासा, न गोलि. प्रीतिदारिती : मासूषा सुखायासीन पोषस्तोषकृन्मानाक् ॥१५।। निहितापत्तयस्तस्य, पत्तयः प्रीतये न हि । सहेला अप्यभूवश्च, सावहेला महेलिकाः ॥१६॥ अन्यदाऽचिन्तयश्चित्ते, वसुधावासवस्तराम् । राज्यधुर्भारसंभारं, कथमेष धरिष्यति ? ॥१७॥ यतिवद्वीतरागत्वं, धत्ते निःसङ्गतामपि । यो यौवनवयः प्राप्य, युवतीजनरञ्जनः ॥१८॥ यद्यस्य कार्यते नार्याः, करग्रहमहो महान् । तदा तद्वशमासाद्य, सद्यः स्याद्विषयोन्मुखः ॥१९॥ तावन्मानी तथा दानी, तावद्धधानी हि मानवः । तावद्योगी तथोद्योगी, यावन्न स्थादशावशी ।।२०।। विमुश्योर्वीश्वर इति, स्वान्ते शान्ते तनद्भवे । कलत्रसग्रहस्यार्थे, चकारोपक्रम क्रमात् ॥२१॥
पित्रोरत्याग्रहादेष, तद्वचः प्रतिपश्नवान् । दाक्षिण्यनिधयः प्रायः, सन्तः पितरि कि पुनः ॥२२॥ IR ततस्तदेव भूभर्ता, धर्ता प्रमदसम्पदः । अयाचत धराधीशकन्या धन्या मुदाऽष्ट सः ॥२३॥