________________
२
उपदेश
सप्ततिका
॥१४८॥
तेरिस गपि निमा लिपुलो, गाना एणं च हविज्ज सिद्धी 11२१।। व्याख्या-जिनानां श्रीसर्वविदां ये जना आज्ञाराधनविधी रताः सदापि सर्वफालमपि न लगति पापमतिः कदापि चित्ते तेषां तपसा विनाऽपि विशुद्धिः पापपंकप्रक्षालनं भवेत् कर्मणां क्षयेण चः पुनरर्थे स्यात् सिद्धिरिति काव्यार्थः । जयन्ति रागादीनिति जिना गृहवासे वसन्तोऽपि ये निरागमनस्काः स्युस्तेषां तपःकरणमन्तरेणापि शुद्धिः सिदिश्च स्यात् । अत्रार्थे श्रीपृथ्वीचन्द्रोदाहरणमुदाहियने
। पृथ्वीचन्द्रकथा ।। पररयोध्याऽयोध्याऽऽस्ते विरोध्याशाविभेदिनी । पुर्यत्र भरते वर्या समुद्धचा सुप्रसिद्धया ॥१॥ प्रतिपक्षहरित्राससिंहः पृथपराक्रमः । हरिसिंहः क्षमापालस्तत्र पालयति प्रजाः ॥शा सदग्रं दोर्बलं यस्य कर्णराकर्ण्य वैरिणः । दौर्बल्यं परमं भेजुरसमाधानधारिणः ॥३॥ पद्मनाभस्य पब तस्य पावती प्रिया । यया पद्मान्यजीयन्त दृग्मुक्खक्रमरोचिषा ॥४॥ पृथ्वीचन्द्र इति ख्यातस्तयोः सूनुरनूनधीः । पृथ्व्यां चन्द्र इवोद्योतं यद्यशश्चर्करीत्यहो ।।५।। यो यौवनेऽपि नोन्मादी विषादी चापि नापदि । प्रसादी स्वानुगवाते प्रमादीर्घत्वमीयिवान् ॥६॥ सोऽन्यदा मुनिमद्राक्षीदक्षीणज्ञानसेवधिम् । तदेव जातिमस्मार्षीदात्मनः प्राक्तनीमिमाम् ॥७॥ प्रपन्नमासीचरणं, मया प्राग्जन्मनि स्फुटम् । इत्यवेत्यात्यजत्तर्णमपूर्वां भोगसंपदम् ॥८॥ नोटं कुरुते वेष, न द्वेषं वहते हिते। न क्रीडति तथा स्निग्धैः, माई मुग्धान्न सेवते ।।९॥
॥१४८