________________
उपदेश
१२६।।
कमढवाहीहरणोसहाणि, सामाइयावस्सयपोसहाणि ।
समतिकाः सिद्धतपन्नत्तविहाणपुग्वं, अहं करिस्सं विणयाइ सव्वं ।।१५।। व्याख्या--कर्माष्टकमेव व्याधिस्तस्य हरणे भेषजोपमानि । सामायिकं च 'आवश्यकशब्देन चतुर्विंशतिस्तदबन्दनप्रतिक्रमणप्रत्याख्यानकायोत्सर्गपौषधानि । कदा सिद्धान्तप्रज्ञप्तविधानपूर्व सूत्रोक्तविधिमुख्यतया । अहमेतानि षडावश्यका नि करिष्ये' ? अथ चाग्रेतनकाव्यवक्ष्यमाणविनयदशकवयावृत्त्यादि सर्व धर्मकृत्यं कदाऽहमाचरिष्ये ? इत्यपि मनोऽभिलाषः श्रेयस्काम्यया कर्त्तव्य एवेति भावार्थः ।।१५।।
भूयोऽपि धर्मकृत्येच्छामाचष्टे--- आणं गुरुणं सिरसा यहिस्स, सुत्तत्थसिक्खं विउल लहिस्सं ।
कोहं विरोह सयलं चइस्सं, कया अहं मद्दवमारिस्स ।।१६॥ व्याख्या-आज्ञामादेशं गुरूणां धर्मदात्ऋणां शिरसा शीर्षेण बहिष्ये । एतावता गुरुपारतव्यमुक्त । अथ च सूत्रार्ययोः शिक्षा विपुलां गुरुमुखालप्स्ये । अथ च क्रोधं विरोधं च सकलं त्यक्ष्यामि | कदाऽहं मदोर्भावो मार्दर्ब सौकु- ४ मार्यमाचरिष्यामीति शुभाभिलाषः प्रगुणनीयः ॥१६॥
१(सामायिक च) चारित्रेष्वावश्यकेष्वपि च मुख्य, तेनादावुपन्यस्त । २ केशोत्तारणमल्पमल्पमशन नियंजन भोजनं, निद्रावर्जन महि | मज्जनविधित्यागश्च भोगश्च नो । पानं संस्कृतपाथसामविरतं येषामिहेत्थं क्रिया, तेषां कर्ममहामय स्फुटतरं पुष्टोऽपि हि क्षीयते ।