________________
१२३।।
किमथ व्यर्थमात्मीयवपुःक्लेशदिवानिशम् । आत्मासौ क्रियते दुःखी बिहारोत्थश्रम शम् ।।९।। स्थानस्थग्यैव मे श्रेय इत्यचेत्य निजे हृदि । आर्यमगुः सदैवास्थात्तव प्रतिबन्धभाक् ॥१०॥ अनालोच्यापि पर्यन्ते तत्प्रमादविचेष्टितम् । विपद्य व्यन्तरो जज्ञे पुरीनिर्धमनाध्वनि ॥११॥ यज्ञमूर्तेरधिष्ठाता ही प्रमादोदयो महान् । ताहग् युगप्रधानोऽपि येनेत्थं हि विडम्ब्यते ॥१२॥ विभङ्गज्ञानतो ज्ञात्वा प्राग्भवोदन्तमात्मनः । पश्चात्तापपरः सूरिनिनिन्द स्वीयचेष्टितम् ॥१३।। हा मया गृहमुत्सृज्य प्रपद्यापि जिनवतम् । रसज्ञालौल्यमाचर्य प्रमादवशवर्तिना ।।१४।। नाराद्धः सद्धिया धर्मोऽशर्मोदयविभेदकः । हहा कथं भविष्यामि साम्प्रतं दुर्गति गतः ।।१५।। चिन्तयित्वेति चेतोऽन्तको रक्षोऽसिययम् । यफबिम्बास्यतो दीर्घा निष्कास्य रसनां स्थितः ।।१६।। बहिर्यातां यतीनां स दर्शयत्यनुवासरम् । तं तादृशमवेक्ष्यंत प्राविस्मितमानसाः ॥१७॥ योऽत्रास्ते राक्षसो वान्यो यक्षो वा व्यन्तरः सुरः । स ब्रवीतु किमेवं स्वामुल्लालयसि (ति) लोलिकाम् ।।१८॥ ततः स प्राह दुःखार्त आर्यमङगरहं गुरुः । भवतामीदृशावस्थामाप्तोऽस्मि किमहं क्रिये ।।१९।। प्रमत्ततामहादोषादरसज्ञारसलालसः । गौरवत्रिकदुाप्राप्तोऽहं दुर्दशामिमाम् ।।२०।। जिह्वां संदर्शयन्नस्मि भवद्भधोऽहमनारतम् सर्वोऽप्येतस्कृतो दोषः पोस्फुरीति महीस्पृशाम् ॥२१ युष्माकमपि चेत्कार्यमार्याः परभवश्रिया । दुरापं तबतं प्राप्य पापव्यापापहारकम् ।।२२।।