________________
उपदेश
११२२॥
ततश्च द्वित्रिचतुरिन्द्रियेषु ततोऽपि पञ्चेन्द्रियतिर्यक्षु ततश्व प्रभूतसुकृताभ्युदयेन पश्वाक्षमानुष्यभवमासाद्य ततोऽपि श्रामण्यमुपचर्यैवमुत्तरोत्तरपदवीमुर्वीमारुह्य यः पुनः पुमान् प्रमादसेवया गमयेत् कालं स दुर्मतिः कथं मोहजालं लङ्घयिष्यतीति काव्यार्थः । यतिना विशेषतः प्रमादसेविना न भाव्यं । अत्रार्थं मथुरामङ्गवाचार्यज्ञातमुत्कीर्त्यते-
|| मथुरामङ्वाचार्यकथा ||
अत्रास्ते मथुरा नाम पुरी पृथुतरा श्रिया । राजते मन्थरो गत्या यत्र योषिखनो घनः ॥१॥ यस्यामश्यामवदना न हि शून्यपदाश्रिताः । धनिनोऽचपलाश्वित्रं घनायन्तेऽस्ततप्तयः || २ || तत्राचार्यः साधुचर्यावर्यः पर्यायशालिनः । मथुरामङ्गुनामाऽऽगाद्विहरन् भूमिमण्डलम् ||३|| अवेत्य क्षेत्रमास्थाभृत्सश्रद्ध श्राद्धबन्धुरम् । तस्थिवान् सपरीवारो विहारोद्विग्नमानसः ||४|| साज्यंर्भोज्यं रसप्राज्य: पक्वान्नैश्व सदनकैः । यथा यथाऽऽस्तिकव्रातः पोष्यते भक्तिरागतः ||५|| तथा तथा प्रसादाम्भः पुरंरम्भोधिवद्भुतः। मानमायोमिसंकीर्णः क्रोधोद्यद्वडवानलः ||६|| वसतिर्वासयोग्येयं शीतवातातपापहा । प्राप्यते वस्त्रपात्रादि सुखेनास्तिकवर्गतः ॥७॥ लभ्यन्ते दुग्धदध्यादिमध्वाज्यादीनि सादरम् । रसद्धिसातसंज्ञैः स गौरवः सुतरां श्रितः ॥८॥
१ सप्रमादा- माओ उ जिणिदहि भणिओ अट्टभेयओ । अन्नाणं संसओ चैव मिच्छानाणं तहेव य । १ । रागो दोसो मइउसो धम्मंमि य अफायरो । जोगाणं दुप्पणीहाणं अट्ठहा बज्जियग्वओ । २ ।
सप्ततिका.
।। १२२ ।।